________________
__२७
पञ्चसूत्रोपनिषद् सन्तोषः । स्वभावत आविर्भवति भयम्, उत्पादनीया भवति तु निःसाध्वसता । प्रथममेवोद्भवति स्वार्थसाधनविमर्शः, परार्थविचारस्तु पश्चादपि न । आपद्यवलम्बते जीवोऽधमां वृत्तिम् । किन्तु तत्त्वविचारे तु क्रियमाण आपदुपयुज्यते तादृशवृत्तिविलयार्थम् । अतस्तत्सम्पादनाय परिहार्या मूर्खता मूढता च ।
यावत्क्षुद्रतादिदोषसद्भावस्तावद् भवति तत्त्वद्वेषः । ततश्च तत्त्वरुचिविरहः । ततोऽपि तदनवगमः । विशिष्टरसायनोपममिदं पञ्चसूत्रम् । न चैतज्जीर्यत्यल्पजठराग्नीनाम्, प्रतनोति च प्रत्यपायम् । अतस्त्याज्यास्ते दोषाः । तदर्थं नियन्त्रणीयं मनः, सहनीयः कायक्लेशः, परिहार्यस्तुच्छलाभः, सन्त्याज्यास्वैरिता, समुपसम्पत्तव्यमनन्तज्ञानिवचः । एतद्विपरीतप्रवृत्तिमूलो हि भवाभिनन्दिनः संसार इति ।
पापप्रतिघातादिक्रमप्राप्या मुक्तिः । तत्र पापप्रतिघातः - (१) भवाभिनन्दिदुर्गुण विनाशः (२) पञ्चसूत्रोदिताराधनाक्रमश्रद्धानम् (३) तद्गोचरपुरुषार्थः (४) पुरुषार्थे विधिबहुमानकालयोग्यत्व-औचित्य योगः - इत्येतत्समुच्चयतस्साध्यः |
ननु दुर्लभः पञ्चसूत्रोक्तः क्रमः, अतः कथं तदधिगतिरिति चेत् ? तत्प्राप्त्यौत्सुक्यातिशयजन्ययत्नेनेति गृहाण । अतो यतितव्यमत्र । एवमेव मनुष्यजन्मादिसामग्रीसम्प्राप्तेः सार्थक्ययोगात् । न ह्येषा भावनिद्रादशार्थम्, व्यर्थवार्तालापाद्यर्थं वा, अपि तु जन्मजरामरणादिचक्रत आत्ममोचनार्थमिति ध्येयम |
न ह्योघदृष्टिपरिहारमन्तरेणाद्ययोगदृष्टिसम्प्राप्तिरिति