________________
२६
पञ्चसूत्रोपनिषद् किञ्चाज्ञता पुष्णाति भय-शाठ्य-क्षुद्रता-लोभरतिमात्सर्यादिदुर्गुणान् । भवाभिनन्दित्वं च पुष्यत एभिर्दुर्गुणैः । मूढतायोगेन न गणयति जनो मोहगोचरस्य दोषसन्दोहम् । नाप्यन्यैः प्रज्ञाप्यमानोऽपि श्रद्दधाति । नापि गृह्णाति ज्ञानिनः शरणम् ।
मूढत्वविरहे त्वनतिप्राज्ञस्यापि प्रभवति विवेकः । सहते परलाभाय स्वयमल्पहानिमपि । विचारयति विचक्षणवचः । परिहरति पुनः पुनर्जायमानां क्षतिम् । न ह्येतादृशविवेकोदयमन्तरेण जातु भवाभिनन्दित्वविगमः सम्भवति ।
अष्टमस्तु दुर्गुणो निष्फलारम्भसङ्गता । मूर्यो हि विचारविकलः, विपरीतविचारस्तु मूढः । अतः स्वस्वदोषहतं भवति तयोः कार्यम् । यद्यपि प्रारम्भे दृश्येत कोऽपि फललेशः, पर्यन्ते तु निष्फलंत्वमेवर्च्छति तत् । निष्फलं नाम निस्सारम् | एवंविधं चेष्टितमाचरति भवाभिनन्दी । निष्फलपर्यवसानं दृष्ट्वाऽपि न ततो निवर्त्ततेऽसौ अपि तु द्विगुणं प्रवर्त्तते तत्र | न च भवाभिनन्दिनामपि विभूतिदर्शनान्न निष्फलत्वमेव सर्वत्रेति वाच्यम्, तत्साध्यप्रमोदादिवञ्चितत्वात्तस्य, मनःशान्त्यादिशून्यत्वात्, पश्चात्तापादिपीडितत्वाच्च । भवत्यस्य दोषपोषो निष्फलैर्यत्नैः । जाड्यवृद्धिश्च तैरेव ।
सन्ततमप्यप्रमादभाव एवोक्तदुर्गुणपरिहारोपायः । अनन्तकालं यावत्स्वभ्यस्तत्वात्तेषाम् । एवञ्च कथञ्चित्प्रकृति भावमापन्ना एते । अपरिचितास्तु सद्गुणाः । सुखेन सेव्यते क्षुद्रता, कष्टेन त्वौदार्यम् । प्रकृत्योदेति लोभः, कृच्छ्रेण तु