________________
पञ्चसूत्रोपनिषद् मूढता तु सा, यस्यां सत्यपि पाण्डित्ये ज्ञानपरिणत्यभावः । न चास्ति मूढस्यात्मविज्ञानम् । तस्य मनोवाक्काययोगा . जडमेवोद्दिश्य प्रवर्त्तन्ते, न त्वात्महितमुद्दिश्य, मूढपण्डितवत् । तथाद्युत्तरप्रदेश एकः पण्डितो गृहे विद्यार्थिनोऽध्यापयाञ्चकारः | तेष्वेकस्मिन् स्वशुश्रुषापरेऽध्येतर्यनुरक्ता तत्पत्नी ।। .. न च मूढतया पण्डितो विवेद तयोश्चरितम् । सकृद्देशान्तरं. गन्तुकामेन पण्डितेन तस्मै विद्यार्थिनेऽर्पितं स्वपत्नीरक्षाकार्यम् | तावपि पण्डितवञ्चनार्थं निकृतिना गृहभागं दग्ध्वा तत्र किञ्चिद्दग्धं मृतकं निक्षिप्य पलायितौ । ततः प्रत्यागतेन पण्डितेन सम्प्रधारितं यथा दग्धा पत्नी । आक्रन्दादिपुरस्सरं चलितस्तदस्थीनि गृहीत्वा गङ्गां प्रति । तत्तटे विलापं कुर्वन् दृष्टस्ताभ्याम् । क्षमितो जातानुशयाभ्याम् । न चासौ प्रत्येति मत्पत्नीति | उक्तश्च भार्यया अहमेव तव गृहिणी - इति । न च श्रद्दधेऽसौ, जगाद च - बहवो धूर्ता भवन्ति काश्याम्, मत्पत्नी तु मृता, एतानि च तदस्थीनि, निर्गच्छेतः - इति । एवं मूढतया निर्विवेकस्स शोकं विधाय भ्रान्त्वा च मृतः ।
न हि मूर्खत्वयोगे ज्ञानं भवति, मूढत्वे सति रहस्यभानं च । न चैताभ्यां वेत्ति मनुष्यः, यदस्त्यधिकं स्वस्य पशोः सकाशात् । विस्मृत्य सनातनमात्मानं रमतेऽसौ क्षणसुखेषु विषयेषु । न चास्य भवति तत्त्वरुचिः, नापि रुच्यतेऽस्मै परेषामपि मिथः प्रवृत्ता तत्त्ववार्ता । ततश्च नक्तन्दिनं पुष्णात्येषोऽतत्त्वमतिम् | न च गृहादिचिन्तामन्तरेणान्यत् किमपि 'कर्तुमुत्सहतेऽसौ । सैषा मूढ़तामूर्खताभ्यामापादिता जीवदशा ।