________________
२४
पञ्चसूत्रोपनिषद् ससम्भ्रमं गृहमागत्य दृष्टम्, ज्ञातं किञ्चिद्धनं लूण्टितम् । न च दृश्यते स्वभार्या चन्द्रकान्ता । ज्ञातमाप्तपुरुषाद्धरन्ति मानुषमपि लूण्टाकाः, तत्स्वजनेभ्यः पुष्कलधनाशयेति ।
ततो दाससहितश्चन्द्रकान्तो धनं गृहीत्वा चचाल उवाह दासः शम्बलम् । लुब्धश्चासौ धने । मार्गयति स्म छिद्रम् । भोजनावसरे गृहीतं श्रेष्ठिपुत्रेण शम्बलम्, धनं च दासेन । जलानयनव्याजेन पातितः स्वामी कूपे । पतनानन्तरमेव श्रुतं श्रेष्ठिपुत्रेण 'नमोऽर्हद्भ्यः' इति । परिज्ञातः पत्नीस्वरः । ज्ञातस्तया सद्भावः - यथा तामपहृत्य निशायां तत्र स्थितेषु लूण्टाकेषु शीलरक्षार्थं तया दत्ता झम्पा कूपे - इति ।
इतरयाऽपि दासदुष्कृतं विज्ञाय निन्दितम् । प्रतिषिद्धा श्रेष्ठिपुत्रेण, भणिता च - उपकार्येवासौ, येन मेलितावावाम् । अन्यथा तु कुतश्चौरपल्लीं गतवतोऽपि मे त्वद्योगः ? अपि च नात्र कूपे धनमभ्यवहरणसाधनमभविष्यदपि तु शम्बलमेवेति युक्तमेव सञ्जातं सर्वम् - इतिः । __ततोऽपि प्रयोजनवशात्तत्रागतेन सार्थवाहेन कूपादुद्धृतौ तौ चलितावग्रे | दृष्टं मार्गे श्वापदमारितस्य दासस्य मृतकम्, धनं च स्वकीयम् । दृढीभूतो वैराग्यभाव उभयोः । प्रव्रजितौ । एवं मधुरं फलमार्जवस्य, कटुकं तु निकृतेः । ___ सप्तमो दुर्गुणोऽज्ञता । सा च द्विप्रकारा मूर्खतारूपा मूढतात्मिका च । मूर्खस्य नोदेति विवेकमतिः | नोपरमत्यसावर्थोपार्जनशब्दादिभोगेभ्यः | भवति स लोकनिन्दास्पदम्, पीड्यते गृहवासे, भ्राम्यति दारुणदुर्गतौ । सैषा मूर्खता ।