________________
पञ्चसूत्रोपनिषद्
रिपूपमा विषयाः, अत एभ्य एव भेतव्यम् । तद्भीतेरेवाप्रमादप्रयोजकतया भयभङ्गयोनित्वात्, तथा च पारमर्षम् - सव्वओ पमत्तस्स भयं सव्वओ अपमत्तस्स नत्थि भयं इति ( आचारागे
-
.....)
-
२३
षष्ठो भवाभिनन्दिदोषः शाठ्यम् । विधत्तेऽसौ प्रतिपदम्, निषेवते निकृतिम् कुरुते प्रत्ययघातम्, प्रकृत्यैव प्रकरोति धूर्त्तताम् भजते निष्प्रयोजनमपि कपटम् । भवति ह्यस्यानादिकालीनो विशिष्टो मायाभ्यासः । ततश्चाभीक्ष्णं तत्सेवनतो बध्नात्यशुभं कर्म ।
-
अन्तरोद्भूतमायाविफलीकरणमेव तदनुबन्धविनाशोपायः । यस्तु सफलीकुरुते ताम् तस्य तदनुबन्धोदृढो भवेत् । अ कर्त्तव्या हृदयशुद्धिः । भावनीयं यत् कथं ध्रुवात्मगुणवञ्चना ममाध्रुवाभियोगहेतुका ? - इति । एवं भावनया भवेन्निकृतिनिकारः ।
भवाभिनन्दिनो ह्यतिप्रियो भवति संसारः, माया च संसारमाता, अतोऽस्य नियोगतोऽस्यामनुरागो भवति । प्राग् लोभरतिरस्य दोषतयोदिता, न तु लोभः । अत्र तु शाठ्यरतिमप्रोच्य शाठ्यमेवोक्तं दुर्गुणतया, तत्रैष हेतुः न हि लोभमात्रं तथाविधभवाभिनन्दित्वप्रयोजकम्, तथा शाठ्यमात्रम् - इति । एवञ्च दारुणतरोऽयं दोषः ।
-
I
माया हि बलात्प्रवर्त्तयत्यात्महितविरूद्ध आत्मानम् । ऋजुस्तु प्राप्नोति सुन्दरामात्मोन्नति प्रयोजिकां विचारप्रवृत्तिम् । ज्ञातमत्र समरादित्यकथावान्तरदृष्टान्तम्, यथा - चन्द्रकान्तनामा श्रेष्ठिपुत्रः परदेशत आगतः । दृष्टा स्वग्रामे धाटिः पतिता ।