________________
२२
पञ्चसूत्रोपनिषद् मलिनत्यात्मीयमुज्ज्वलं जीवनम् । तनोत्यसत्कल्पनाजालम्, रमते पशुप्रायोग्यसञ्ज्ञासु, धत्ते भवगोचरोपादेयमतिम् । अत्र तृष्णा तत्र भयम् । तृष्णैव भयजीवनम् । तत एव भयवृद्धिर्भववर्धनं च । ___अपि च भयेन कल्पयत्यसत्यभाषण-निकृतिहिंसा-कषायादिप्रवृत्तिम् । यद्यपि कदाचिन्न भवत्यप्यसत्यभाषणादिकम्, मनसा तु कारयत्येव तत्तत्पापानि भयः किञ्च भयेनैव सम्भवति रौद्रध्यानमपि, यथोक्तम् -
सर्वाभिशङ्काकलुषं चित्तं च धनरक्षणे-इति (अध्यातमसारे ...) रौद्रध्यानस्वरूपम् । वर्तमाने च तस्मिन् यद्यायुर्बन्धः, तदा प्रयाति नरकमपि । ततोऽपि भ्राम्यति दुर्गतिम्, पापानुबन्धानामनुबद्धत्वात् । __भयो जनयत्यसमाधिम्, प्रसूते गृहादिरक्षागोचराक्षणिकतातिशयम्, उत्पादयति शङ्कां शब्दलेशेऽपि चौरादिगोचराम् । धनं ह्यासक्तिविषयभूतम्, अतस्तन्निमित्तीभवति भये । न हि भवाभिनन्दिनः समाधिसक्तिर्भवतीति 'मा भून्मम समाधिभङ्गः' इत्याद्याकारको नोदेत्यस्य भयः । एतद्भयविरहादेव भवन्त्यस्य तुच्छवस्तुनिबन्धनानि भयशतानि, लुब्धष्ठिवत् । तथा हि चौराशङ्कया झटिति धनागारद्वारं मुद्रयित्वाऽन्तः प्रविष्टोऽसौ तालकयन्त्रोद्घाटनोपायविरहेणान्तरेव प्राप मृतिम् ।
किञ्च भयदोषेण धर्मानुष्ठानेऽपि न भवति स्थिरचित्तः । एवं खलु भयो दूषयति सर्वस्वम् । इन्द्रियाणि हि लूण्टाकरूपाणि, चौरभूतं मनः, सर्पिणीव विसर्पति कुवासना, प्रतितिष्ठन्ति