________________
पञ्चसूत्रोपनिषद्
२१
ज्ञानिनमधिकतपस्विनं वा । इर्ष्यावृत्तिरेषा प्रतिबध्नाति भवविरागं सम्यग्दर्शनं च । कारयत्युपकारिणोऽप्यवगणनाम्, सिंहगुहावासिमुनिवत्, पीठमहापीठमुनिवच्च ।
पञ्चमो दुर्गुणो भयम् । दैन्ये स्वानुपलब्धिर्दुःखयोनिः, मात्सर्ये परलाभोऽसुखहेतुः, भये तु मा भूदवाप्तवस्तुनाशःइत्येतन्निबन्धना भवति दुःखानुभूतिः । अत्र मूलं सम्पन्मात्र - समागमो मेऽस्तु मा भून्मम विपल्लेशोऽपीति भावना ।
विचित्रा हि कर्मणां गतिः । प्रतारयन्त्येतानि सभयानपि । 1 पातयन्ति बलादपि कष्टे । समूलमुन्मूलयन्ति सुखम् । नैषां कोऽपि कालनियमो विद्यते । ततः कस्स्याद् भयप्रयुक्तो गुणः? गत्वरं तु गच्छत्येव, किन्तु सभयो दह्यते तच्चिन्तया, कदर्थ्यते ममकारेण, विस्मरत्यात्मानुचिन्तम्, न पश्यति परमार्थम्, विहितं स्वमनो जडकिङ्करम्, सञ्जातश्च स्वयं तदुभयोर्दास इति ।
भीतस्य हि भोजने धनादिव्यये याचकागमे सर्वत्राप्यस्खलितो भवति भयप्रसरः । किञ्च - ग्रहीष्यति धनं प्रशासनम्, लूण्टिष्यन्ति चौराः, अपगमिष्यति मत्सन्मानम्, नोपादास्यते मत्कथितम् इत्यादि भयकदर्थितो न भुङ्क्ते सुखेन, नापि भोजयति परान्, न करोति सुकृतम्, नाप्यनुजानाति परान् तत्कर्त्तुम् ।
भयो हि कारयति रमणं तामसभावेषु, भापयति धर्माचार्येभ्यः, वञ्चयत्युपदेशश्रुतेर्महार्घ्यधर्माराधनातश्च । चिन्तां कारयति मा कार्षीद् दानोपदेशं धर्मगुरुः, ततो वरं न याम्येव तत्समीपे - इति । एवमात्मानं सत्सङ्गवञ्चितं विधत्ते भयम् । ततश्चात्मैव