________________
पञ्चसूत्रोपनिषद् ___ पराङ्मुखीभूतास्तीर्थकरा अर्थतः कामतश्च । ततस्तेषां सञ्चरतामागच्छन्त्यधस्ताच्चरणयोः सुवर्णपद्मानि । शिरसाऽर्थं वहमानास्तु तद्दासतामिताः कदर्थ्यन्ते तेनैव । नाम्नैवासावर्थोऽनर्थस्तु परमार्थतः । किञ्च गत्वरविगमेऽनुशोचनमपि न सङ्गतिमङ्गति । कथन्नाम स्वभावोऽन्यथा स्यात् ? अतस्तद्यत्नं विमुच्य सदातनात्मस्वभावाविर्भावाय यतनीयम् । । . क्षुद्रताऽऽपादयति विवेकशून्यताम् । लोभरति भरतिश्च कुरुत आत्मानं रङ्कोपमम् । दीनता नित्यं दुःखैकहेतुः । एतत्त्रितयविगमाय प्रार्थयितव्यं प्रभोः पुरस्तात् - (१) दुःखक्षयः कर्मक्षयश्च मेऽस्तु | मा भूत्कष्टेष्वपि मे चित्तपीडा । अस्तु मे सन्ततं तृप्त्यनुभूतिर्मनसि । भूयाच्च मे द्वादशतपआराधनारूपा निर्जरा । (२) अस्तु मेऽन्तसमये समाधिलाभः । (३) भवतु मे भवान्तरे बोधिलाभः । ___ अत्र प्रथमा याञ्चा जीवनकालगोचरा, द्वितीया मृत्युसमयगोचरा । तृतीया त्वामुत्रिकविषया । इहलोकेऽपि सुखशान्त्यर्थिना परलोकेऽपि सौख्याभिलाषिणा पारम्पर्येण च परमपदेप्सुना परिहार्या दीनतेति समासार्थः । ___तुर्यो दुर्गुणो मात्सर्यम् । इर्ष्या द्वेषोऽसूया वैरमसहिष्णुता तिरस्कारः परविभवासहनमित्याद्या अस्यैव पर्यायाः । वीतरागऽप्रमत्तसरागसंयमि-प्रमत्तसंयमि-देशविरत-सम्यग्दृष्टिः - मोक्षरुचिमिथ्यात्विनो गुणवन्तः । ततोऽप्यधस्तनकक्षागता भवन्ति भवाभिनन्दिनो दोषैकपरिणताः । तत्कक्षां दृढयति मत्सरः । अनेन न सहते जीवस्स्वस्मादधिकधनवन्तमधिक