________________
पञ्चसूत्रोपनिषद्
१९
शोचते परिदेवते च । कुरुतेऽभिमतवस्त्ववाप्त्यर्थं परप्रेष्यताम् । वदति चाटूक्तिम् । सेवते कुक्कुरसङ्काशताम् । भजते भिक्षुकभावम् । विस्मरत्यात्मीयमुत्तमकुलादि । निमज्जति पापपङ्के । गच्छत्याहारादिसञ्ज्ञापारवश्यम् ।
I
सर्वाङ्गदुःखमयो ह्ययं संसारः, न तु सर्वाङ्ग सुखमयः । सर्वाङ्गसुखं तु शुद्धात्मस्वरूपमात्रे । सुखाभासस्त्वन्यत्र । सोऽप्यनेकदुःखसन्दोह हेतुः । का नु तत्र सुखाशा ? किं च तन्यूनत्वे परिदेवनम् ? किन्तु नैवं संवेत्ति दीनताकवलितः । नावगच्छति जीवपुद्गलयोः स्वरूपम् । स ह्यात्मनः सुखस्वरूपमन्वेषयति पुद्गलस्वरूपे, न तु तन्नश्वरतया, पराधीनतया, दुःखप्रदानप्रकृतितयाऽवधारयति । कथन्नाम सर्पास्ये सम्भवत्यमृतम्, अतस्तदनवाप्तौ निमज्जत्ययं शोकसागरे ।
अपूर्णता हि भवस्वभावः । नात्र पूर्णत्वसम्भवः । अतोऽत्राल्पेनापि कर्त्तव्यस्तोषः । अल्पमपि मन्तव्यमनल्पम् । अन्यथा तु महासंयमिनोऽपि दीनत्वयोगात् सम्भवति संयमभ्रंशः, कण्डरीकमुनिवत् ।
विभवानुधावनमनुकुरुते स्वछायानुधावनयत्नम् । यथा यथा तदनु धाव्यते तथा तथा सोऽपि सञ्चरति पुरस्तात् । वस्तुतस्तु ततः पराङ्मुखीभवनमेव तदवाप्त्युपायः, अन्वाह
नाते यावदैश्वर्यं तावदायाति सन्मुखम् । यावदभ्यर्थ्यते तावत्, पुनर्याति पराङ्मुखम् ।।
इति (योगसारे - ४)