________________
१८
पञ्चसूत्रोपनिषद् रक्षत् । तत्रत्यसर्पदंशेन प्राप मृतिम् । इतश्च तद्भ्राता गुणचन्द्रः कदाचित्तीर्थकरयोगे पप्रच्छ - यथा कथममुकपर्वतशिखररुढस्य नालिकेरीवृक्षस्य मूलं तत्तटं यावद् गतमस्ति ? किमस्ति तत्र किमपि निधानम् ? केन च निहितं तत् ?. - इति । जगौ चाहन्, यथा - तन्नालिकेरीवृक्षजीवेन पूर्वभवे त्वद्भातृभूतेन निहितं तत् । मारितश्च. त्वं तेन धनलोभेन । अन्तरालभवे जातिस्मरणे स्वनिहितनिधानं विज्ञाय निहितं तटीभागे । ततश्च लाभरतिदोषेण गत एकेन्द्रियताम् - इति ।
एवमतिलोभो लाभरतिश्च दीर्घभवव्याधिकारणं कुपथ्यम् | भावनीयं यथा - अहो मदज्ञानम्, यत् पराधीनेऽपि लाभे स्वात्मगौरवम् । आत्ममालिन्यप्रयोजके लोभे समुज्ज्वलत्वमानिता । भवति हि पुण्यानुगुण्येऽकल्पितोऽनल्पोऽपि लाभोऽन्तरेणोपार्जनपरिश्रमम्, तद्वैगुण्ये त्वभिलाषयत्नाद्यतिशयभावेऽपि नैव भवति । अपि च पापोदये सति मूलहानिरपि सञ्जायते । कोऽत्र कर्मपराधीनाय लाभायाभियोगः प्रेक्षावतः? न हि स्पृहा) बाह्यविभवः, पापप्रकरप्रयोजकत्वात्, अपि त्वान्तरविभवः सुकृतसदाचारसद्गुणात्मकः, सत्संस्कार-समाधाय कत्वात् । लाभलोभविषचक्रतस्तु पुराणतमा दारुणतराश्च दृढीभवन्ति कुसंस्काराः । कश्च ततो भवान्तरेषु तत्सम्मार्जनावसरः ? अत आदृतव्योऽयमवसरः - इति । . तृतीयो दुर्गुणो दीनताभिधः । यदनुभावेन सर्वत्र । मनोज्ञमनुकूलं चान्वेषते जीवः । न च तदवाप्तावपि तुष्यति । अनल्पलाभमपि न्यूनमेवाभिमन्यते । पश्यति प्राप्तवस्तुछिद्राणि,