________________
१७
पञ्चसूत्रोपनिषद् सम्भवी - इति । ततोऽपि कथञ्चिल्लाभे जाते मन्यते तं प्राणाधिकं सर्वस्वं च । कुरुते नक्रन्दिनमपि तदीयचिन्ताम् । लाभेन हि सतृष्णस्य वर्धत एव लोभः, तथा च पारमर्षम् - जहा लाहो तहा लोहो, लाहा लोहो पवड्ढइ दो मास कयं कज्जं कोडिए वि न निट्ठियं - इति (उत्तराध्ययने) । अभिहितं च - इच्छा हु आगाससमा अणंतिया - इति (उत्तराध्ययने - ९)
स एष लोभरोगो नैराश्यौषधेन नेय उपशमम् । अन्यथा तु दुरन्ता लाभलोभविषचक्रभ्रान्तिः । न हि तद्भ्रान्तस्य भगवद्भक्त्यादियोगा दृश्यमाना अपि जातु समीचीना भवन्ति । स विधत्तेऽपि जिनपूजाम्, शृणोति गुरूपदेशम्, वहत्यश्रूण्यम्बकयोः, दर्शयति गद्गद्भावम्, तथाऽपि न शिथिलयति लोभग्रन्थिम् । मन्यते धर्माराधनामपि लाभसाधनमात्रम् । एवञ्च तत्पक्षपातातिशयान्नासाववगच्छति धनेन्द्रियविषयत्यागवार्ताम् । न मन्यते - लोभ एव सर्वपापमूलम्, सर्वगुणविनाशकः, भवदुःखनिबन्धनम्, कर्मवैवश्यापादकः, मुक्तिसुखबाधकः, तृप्तिसौख्यप्रतिबन्धकश्च - इति ।
एवं लोभरतयो गच्छन्त्यधमां गतिम् । यथा राज्यसक्त्या सुभूमः, इन्द्रियविषयगृद्ध्या ब्रह्मदत्तस्त्रिपृष्ठश्च, मन्मनश्रेष्ठी च धनलोभेन.... एवमनेक आत्मानो गताः सप्तमां नरकावनिम् । राज्यादिकं तु तत्रैवाऽस्थात्, तत्सत्ता तु भ्रमन्ति भीमां भवाटवीम् । श्रूयते च समरादित्यतृतीयभवान्तरकथायां बालचन्द्रः स्वभ्रातृवञ्चनं कृत्वा सुवर्णलक्षसप्तकं पर्वततटे निधानीकृत्या