________________
पञ्चसूत्रोपनिषद् दानभयेन परेषामपि दानेऽन्तरायम् । विधत्ते धर्मविघ्नम् । __ न हि धर्मभावनानुमतमिदम् । नश्वराणामात्महितविघातकानां च वस्तूनां बहुमानानर्हत्वात् मनोज्ञविषयाणां वैवश्यापादकत्वात्, दुर्गतिकूपावतारणप्रयोजकत्वाच्चानभिलषणीयत्वादयुक्तैव तत्तृष्णाहेतुकतुच्छहृदयतेति भावः । ___अभिलषणीयं त्वेकमेवानासङ्गपदम्, न तु पुद्गलद्रव्यम् । किञ्चैकेन्द्रियजीवकलेवररूपा एव भोज्यादयो विभवश्चेति कस्तस्मिन् सचेतसोऽनुरागः ? कथञ्च तुच्छार्थं तुच्छभावोरीकार इति चिन्त्यम् । गृध्रा एव मृतकेषूत्सवं मन्यन्ते । किन्तु प्रतिबध्नात्येनं सद्विचारं क्षुद्रता । उपहासपात्रीविधत्ते तत्त्वचिन्तनम् । कुरुते पण्डितमानिनमात्मानम् । अवगणनां कारयति महाज्ञानिनाम् । क्षुद्रता हि बलात् पातयत्येवानेकदोषनिकुरम्बकर्दम इति हृदयम् ।।
द्वितीयस्तु भवाभिनन्दिदुर्गणो लोभरतिः (लाभरतिः) । भवति हि भवाभिनन्दिनो जीवस्य विशिष्टतरो लोभपक्षपातः, यथा - भाव्यमेव लोभिना, न हि वयं साधवः | संसारिणो हि लोभमन्तरेण निर्वाह एव न स्यात् । किञ्च विभवाद्याकाङ्क्षाशून्यं हास्यपात्रमेव जीवनम् । भवितव्यमेव मनुष्येण महत्त्वाऽऽकाङ्क्षिणा - इति ।
ततश्चाद्रियतेऽनेन लोभः । नैष लोभ एव, अपि तु लोभरतिः | तया पश्यत्यसावल्पतृष्णान् लोकान् मूढान् वराकाँश्च । अवगणयति त्यागोपदेशवचः । कथयति - पुराणं सूक्ष्मं चैतत् । न च साम्प्रतकाले लोभमन्तरेण लाभं विना च निर्वाह एव