________________
प
पञ्चसूत्रोपनिषद् यतितव्यम् । __ स्वार्थभावना हि क्षुद्रतामूलम् । तत्सातत्यं तु भवति तुच्छभोगबहुमानतः । ततश्चोदेति तुच्छवस्तुगोचरो लोभातिशयः, तदल्पप्राप्तावत्यनुशयः, तत्प्राप्तौ हर्षातिरेकश्च । प्रायो महत्तमो दिनभागो व्येति तद्वा विचारादौ । ततश्च कथम्सम्भवस्स्यादुदात्तवृत्तेरुदारव्यवहारस्य च ? कथञ्च - कियन्मम मुक्तेश्चान्तरम् ? भववृद्धिर्मम भवति तद्धानिर्वा ? - इत्यादेः स्वप्नेऽपि स्याद्विचारः ? __यदा तु क्षुद्रतापगमेन गभीरं भवति हृदयम्, तदा न जातु सम्भवेत्तुच्छवृत्त्युदयः । नापि दीयेत प्राधान्यं तुच्छवस्तुने । यद्यपि न स्यात्तत्त्यागप्रत्यलता, तथापि न भवेत्तत्तद्भोग एकायनीभावश्चित्तस्य । अपि भवतिस्तदधिगमयत्ने ग्लानिभावः | न भवति तद्यत्ने क्रियमाणे निर्दयत्वं जीवेषु । न विस्मरणमेति परोपकारः | क्षुद्रता ह्यापादयति हृदये निष्ठुरताम् । ततश्च न विचारयति जीवो यत् - अपरोऽपि मत्सदृशः संसारवर्तिजीवः, सोऽपि कर्मकदर्थिततया दयास्पदम् । कथमेतस्मै कुपितव्यम? कुपितव्यं तु कर्मप्रकृतौ मोहान्ध्ये च, यत्पीडितमिदमखिलं जगत् । प्राप्नोत्वसौ जीवः सन्मतिम् । अपराधादेरस्य भूयाद्रक्षा | मा भूदस्य दारुणं दुर्गतिदुःखम् । भूयादस्यापि मङ्गलम् - इति ।
न हि क्षुद्रस्योदेत्येष मैत्रीकारुण्यभावः । तस्य तु प्रतिपदं भवति द्वेषोदयो निर्दयताविर्भावश्च । कदर्थ्यतेऽसावहङ्कारेण । बाधां प्राप्नोति ममकारतः । निमज्जति दुर्गुणकर्दमे । कुरुते