________________
१४
पञ्चसूत्रोपनिषद् तच्छ्रुत्वा नारद उवाच - अजः पुनर्यो न रुहति तादृशं पुराणं शाल्यादि धान्यम्, इत्यर्थो गुरुभिः कथितः - इति । न तु क्षुद्रतावशात् प्रतिपन्नं पर्वतेन । ततोऽप्येकान्ते मात्रा प्रज्ञाप्यमानेनापि न तेनाङ्गीकृतम् । तदर्थे चाङ्गीकृतोऽनेन साक्षिभावो वसुराज्ञः । मात्राऽपि पुत्रमोहतः कारितो वसुराजाऽसत्यभाषणम् । तत्क्षणमेव पातितो भवनदेवतया भूमौ । मृत्वा च स जगाम नरकम् । पर्वतोऽपि बाढं लोककृतं न्यक्कारं प्राप्य मुमोच तद्देशम् । गत्वान्यत्र प्रवर्त्तयाञ्चकार घोरहिंसामार्गम् । अन्ते च गतोऽधमां गतिम् ।
क्षुद्रता हि विस्मारयति तत्त्वम् । उल्लङ्घयति सत्यम् । प्रवर्त्तयति दारुणायामहिंसायाम् । ततश्च दुर्लभा भवति मोक्षदृष्टिः । भवति च भवैकाभिनन्दिता । अतो विमुच्य क्षुद्रतां विचारणीयमुदारहृदयेन - क्षुद्रतयैव भ्रान्तोऽहमनन्तं भवम् । कथन्नाम निकटीकरिष्यामि मोक्षम् ? न हि कस्यापि लज्जते कर्म । दर्शयति क्षुद्रहृदयस्य दारुणविपाकमेतत् । अतो नं क्षुद्रतया भववर्धने विषयभोगे स्वार्थसक्तौ च करणीयं बहुमानम् । तदबहुमानत एव तुच्छतास्फातिः, ततश्च क्षुद्रहृदयता | यथा स्वापप्रियस्य मध्यरात्रौ केनचिन्निद्राभङ्गे कृत उदेत्यनल्पो मन्युः क्षुद्रतानुभावात् । अपरथा तूदारमनसैष एव स्याद्विचारो यथा - को नु भाग्यशाली केन सङ्कटेनात्राऽऽगतो भविष्यति ? - इति । एतेन विमर्शेन भवति हृदयं दयार्द्रम् । गच्छत्यात्मा सन्ततमप्यभ्युदयमार्गे । तदत्र समानेऽपि निद्राभङ्गे मनोवृत्तिरुच्चावचगतिनियामिका, अतस्तत्पारम्ये