________________
पञ्चसूत्रोपनिषद् पश्यति इति ।
ततोऽलङ्घनीयं गुरोर्वच इति सम्प्रधार्य निर्गतो नारदः । दृष्टमटव्याम् - पश्यति तारामण्डलम् इति । गतो यक्षमन्दिरे । तत्रापि - यक्षः पश्यति - इति निर्गतः । शून्यगृहेऽपि - अहमेव पश्यामि - इति न जघान । निमीलितचक्षुरपि - लोकपाला दिव्यदृशश्च पश्यन्त्येव - इति विचार्यावगतमनेन गुरुवच - स्तात्पर्यम् - न कुत्रापि हन्तव्योंऽयं कुर्कुटः - इति । ततश्चाहत एव प्रत्यर्पितस्तेन गुरवे ।
१३
पर्वतस्तु क्षुद्रमतिवशाद्यथा न कोऽपि जनः पश्यति, तथा वने हत्वाऽऽगच्छत् । प्रशंसितो गुरुणा नारदः । उपालब्धस्तु पर्वतः, यथा - कथं पश्यत्स्वपि लोकपालेषु देवतादीषु च हतो भवता कुर्कुटः ? - इति । ततोऽपि तत्पापेनात्मपापित्वं मन्यमान उपाध्यायो गत उद्याने मुन्युपकण्ठे । पप्रच्छ विनयेन - कुटुम्बसत्कः कोऽपि यदि दुष्कृते प्रवर्त्तते, तदा कुटुम्बमुख्यस्य दोषानुषङ्गो भवति, न वा ? - इति । प्रत्युत्तरयन् मुनिः जाज्वल्यमानं तृणपूलं गृह्णन् यथा दह्यते, तथा गृहस्वामिनोऽपि कर्मबन्धो भवतीति श्रद्धेयम् - इति । पुनरपि पप्रच्छासौ कथन्नामैतत्पापविगमस्स्यात् ? - इति । जगादैष उत्तरम् - यथा जाज्वल्यमानं तृणपूलं विमुञ्चन्न दह्यते, तथैव गृहत्यागं विदधन्नपि न तद्दोषेण दुष्टो भवति इति ।
-
श्रुत्वैतत् प्रवव्राजासौ मुनिसकाशे । गतश्च चरणाराधनया सद्गतिम् । इतश्च पर्वतो विद्यार्थिनः पुरस्तात् 'अजैर्यष्टव्यम्' इति वेदवाक्यस्य 'एलकैर्यज्ञः कर्त्तव्यः' इत्यर्थपरकत्वमाचचक्षे।