________________
पञ्चसूत्रोपनिषद्
भवाभिनन्दिनोऽष्टौ दुर्गुणा भवन्ति, तद्यथा - क्षुद्रो लाभरतिदनो मत्सरी भयवान् शठः । अज्ञो भवाभिनन्दी स्यान्निष्फलारम्भसङ्गतः ।।
तत्र क्षुद्रहृदयोद्भूतो भावः क्षुद्रता । नास्मिन् भवत्याशयगभीरता । भवति तु स्वार्थसिद्ध्यौत्सुक्येन सूक्ष्मदृष्टिविरहः, दीर्घकालपर्यालोचनाभावश्च । ततश्च कुतस्तरां तत्त्वश्रद्धाप्रसूतिः ? अतः परिहार्यः स्वार्थान्धत्वोद्भूततुच्छहृदयाध्यवसायः । कर्त्तव्यं वस्तुतत्त्वदर्शनम् । विधातव्यः सूक्ष्मबुद्ध्या विचारः । एवं ह्यनुचितप्रवृत्त्यादेर्भवत्यात्मरक्षा ।
१२
अत्र धर्मरत्नप्रकरणोदितं ज्ञातम् - श्रोत्रीमत्यां नगर्यामुवास पापभीरुः क्षीरकदम्बाभिधो ब्राह्मणः । स च वेदशास्त्रवेत्ता । तत्समीपे तत्पुत्रः पर्वतः, अध्येतुमन्यत आगतो नारदः, राजपुत्रश्च वसुः शास्त्राभ्यासं चक्रुः । अन्यदा तद्गृह आगतं मुनियुगलम् । तत्रैकेनातिशयज्ञानिनाऽभिहितोऽपरः - अत्र विद्यार्थित्रयमध्ये द्वावधोगामिनौ, एकस्तूर्ध्वगामी इति । श्रुतमुपाध्यायेन । चिन्तितं च - राजपुत्रस्तु प्रायः सम्भवत्यधोगामी । इतरस्तु को भविष्यतीत्यस्तु परीक्षा । यतः -
,
भर्तुर्भार्याकृतं पापं शिष्यपापं गुरोर्भवेत् । राज्ञि राष्टकृतं पापं, राजपापं पुरोहिते ।। ततश्चान्धकारमय्यां रात्रौ पर्वताय नारदाय चैकैको लाक्षारसमयो कुर्कुटोऽर्पितस्तेन । अभिहितं च - मन्त्रबलेन मूर्च्छा प्रापितोऽयं मया । स च तत्र हन्तव्यः, यत्र न कोऽपि