________________
११
पञ्चसूत्रोपनिषद् तत्र विषयसुखगृद्धयतिशययोगादनर्थः ।
सम्यक्त्वं हि मोक्षानुष्ठाने बीजम् । सबीजक्रियात एव मोक्षः । तां विना तु द्रव्यश्रामण्यमपि संसारफलम् । हिंसाभिरुचिरसंयमव्यसनिता. मनोज्ञाहारगृद्धिर्विषयलाम्पट्यं कषायप्रमादपारवश्यं च मुञ्चत्यात्मानं दयास्पददशायाम् । यस्य तु क्रमसचिवविधिमार्गे सम्यग्दृष्टिमात्रमपि भवति, तस्यापि नियोगतोऽर्धपुद्गलपरावर्त्तप्रमाण एवोत्कर्षतः संसारः । विना तु सम्यग्दृष्टिं भवत्येवापारः संसारः । अत एव परमार्थत एतच्छास्त्रपदार्था एतत्क्रमेणैवाविर्भवन्तीत्युक्तम् । अपि च... अयं चातिगम्भीरो न भवाभिनन्दिभिः क्षौद्राद्युपघातात् प्रतिपत्तुमपि शक्यते ।
पञ्चसूत्रोदिता भावा अतिगूढा गम्भीराश्च । अत एव प्राक् पापानां समूलं विनाशं कृत्वा धर्मगुणबीजाधानं कर्त्तव्यमित्युच्यते । भवाभिनन्दी हि जीवो निजक्षुद्रतालोभरत्यादिदोषदूषिततया न यतत एतत्पुनित-पदार्थानधिगन्तुम् । नाऽप्येतदवगमेऽप्यसौ. प्रत्यलः । नाऽपि तस्यैतदवगमविषय आदरलेशोऽपि भवति । आदरो ह्युपादेयमतिहेतुकः । सा चास्य नास्तीति । एवं च गुणबीजाभावे कुतः फलम् ? बीजं विना तु कष्टमयक्रियाऽपि निष्फलैव स्यात् । अतः क्षुद्रतादिमलप्रक्षालनेन शुद्धात्मस्वभावाविर्भावे यतनीयम् । तल्लेशाधिगतावपि श्राद्धव्रताद्यभ्यासक्रमेण सञ्जायते साधुधर्माभिलाषस्तद्योग्यता च । एष एवाभ्यासः प्रयत्नश्च परिभावनापदेनोच्यते ।
पत।