________________
पञ्चसूत्रोपनिषद्
तदनुपालनयत्नानुपपत्तेः । परिभावित साधुधर्मोऽनुनयति स्वजनादीन् प्रव्रज्यां गृहीतुम् । कथञ्चिदबुध्यमानेषु तेषु प्रयुङ्क्ते तत्प्रतिबोधोपायान् । एवमप्यबुध्यमानेषु कुरुते तज्जीविकाव्यवस्थाम् । एवमप्यननुज्ञापयतां विधत्तेऽटवीग्लानौषधन्यायतः परिहारम् । ततोऽपि प्रव्रजितस्सन् यततेतरां तदनुपालने । तद्विना परिभावनावैयर्थ्यानुषक्तेः ।
१०
श्रुतसागरसङ्काशद्वादशाङ्ग्याः सारभूतमिदं पञ्चसूत्रम् । एतत्परिणतिमता परिणमितं द्वादशाङ्गीनवनीतम् । ज्ञानक्रिययोर्हि द्वादशाङ्गीसमवतारः । प्रकृतेऽपि तदद्वयवक्तव्यतेत्येतत्सारो द्वादशाङ्ग्याः ।
ज्ञानक्रियासमुच्चये हि सिद्धियोगः । तथा च पारमर्षम् - हयं नाणं कियाहीणं, हया अन्नाणओ किया । पासंतो पंगुलो दड्ढो, धावमाणो य अंधओ - इति (आवश्यकनिर्युक्तौ) ।
पापप्रतिघातगुणबीजाधानाभ्यां विना ह्यनन्तान्यपि चारित्रानुपालनानि निष्फलत्वं गतानि । न हि क्रमप्राप्यं वस्तु तदन्तरेण प्राप्यते जातु । न चैवं चारित्रगुणभावेऽपि मुक्त्यनधिगतेरन्वयव्यभिचार इति वाच्यम्, तस्य परमार्थतो गुणाभासरूपत्वात् ।
मुख्यं हि चारित्रफलमात्मविशुद्धिः, गौणं तु सुदेवमानुष्यादि । न ह्येतत्प्रदानेऽप्रत्यलं चारित्रं गुणरूपम्, अपि तु गुणाभासात्मकम्। किञ्चाज्ञानकष्टेनापि प्राप्यते देवत्वम्, न तु तच्चारित्रम् । एवमेवानन्तशो ग्रैवेयकोत्पातसङ्गतिरपि । तदत्र क्रमोल्लङ्घन-स्यैवापराधः । ततश्च कथञ्चिद्दिव्यगत्यवाप्तावपि