________________
पञ्चसूत्रोपनिषद् सम्पादनाय प्रागणुव्रतानां विधातव्यो विशुद्धोऽभ्यासः । सोऽप्यहिंसादिगोचरनिश्चलोपादेयमति - अकल्याणमित्रपरिहारकल्याणमित्रसंसर्ग - धर्मजागरिकादिभिः सहितः कर्त्तव्यः । प्रापणीयश्चात्मा साधुधर्माधिगमयोग्यताम् ।।
अनन्तकालं यावदितो विपरीता चर्याऽपि स्वरसपूर्वकं निषेविता जीवेन । न च स्वप्नेऽपि परिज्ञातः साधुधर्मः । न चैष प्रतिभातः कदाचिदात्मधर्मतया । यथा तप आत्मस्वभावतया नाऽऽभाति, अपि त्वभ्यवहरणमेव । परिग्रह एव भवति विभूत्यभिमानः, न तु निष्परिग्रहत्वे । एवमनन्तकालं यावन्निषेविताऽऽत्मस्वभावविरुद्धचर्या । अतोऽत्यावश्यकस्तत्प्रतिपक्षाभ्यासः । अन्यथा नियोगतो भविष्यत्यात्मविसंस्थुलत्वम् । उक्ताभ्यासस्तु तदैव सम्भवति, यदाऽर्थकामविस्मृत्तिस्स्यात्, स्याच्च सततं धर्ममोक्षसंस्मृतिः । विषयकषायपरिहारेण भवेदादृतिस्त्यागवैराग्यक्षमादीनाम् ।
रत्नचिन्तामणिसदृशे मानवभवेऽहिंसासंयमतपस्त्यागवैराग्योपशमविरत्यप्रमाददर्शनज्ञानचारित्राण्येव पुनः पुनः स्मर्त्तव्यानि । तत्संस्मरणसम्पादनाय च देशतोऽपि तान्याचरितव्यानि । ततो हि देशतोऽपि भवति तत्प्रकृतियोगः । ततश्चैतेष्वात्मीयतामतिप्रादुर्भावः, हिंसादिपापस्थानकाहारादिसञ्ज्ञागृहपरिवारादौ परकीयत्वबुद्धिसमुदयः । ततश्च दृढा प्रवृत्तिरभवेत् संयमादौ । शिथिला तु हिंसादौ । बुद्धेरेव दृढत्वादिनियामकत्वात् ।
न ह्यपरिभावितसाधुधर्मस्तमधिगन्तुमधिकुरुते, तस्य