________________
पञ्चसूत्रोपनिषद् पापसामग्र्या असम्भवः, गुणानुगुणभावोदयसम्भवश्च । बाह्या शुभप्रवृत्त्यनुगुणसामग्री यथा मानुषकाय आर्यदेशः पञ्चेन्द्रियमनोस्वास्थ्यमारोग्यं सुदेवः सुगुरुः सर्वज्ञवच इत्यादिः । तथाऽSभ्यन्तरा - शुभभावः सम्यग्वीर्योल्लास इत्यादिः । ततश्चामोक्षं भवतीदृशसामग्रीयोगः । सम्भवत्येवमशुभानुबन्धप्रतिघातशुभानुबन्धाधानाभ्याम् । प्रभावोऽयं पुण्यानुबन्धिनः पुण्यस्य । तत्राप्याधिपत्यं विशिष्टमोक्षाभिलाषधर्मरुच्यादिलक्षणस्य विशुद्धाध्यवसायस्य ।
ततोऽपि भवति प्रयत्नः स्थूलत उक्तगुणप्रतिपत्तौ तंत्र स्थूलत इति गृहस्थेन पालयितुं योग्येन प्रकारेण यथा - निरपराधत्रसजन्तूनां सङ्कल्पतो वधस्य नियमः, कन्यागौभूम्यादि सम्बन्ध्यसत्यसम्भाषणस्य नियम इत्यादिः । एतदेव समयपरिभाषयाणुव्रतमित्युच्यते । अत्र एव सर्वथा नियमात्मकं तु भवति महाव्रतं साधूनाम् । तदवाप्तिप्रयोजकं भवत्यणुव्रतानुपालनम् । अतस्तस्मिन् तदनुगुणवस्तुनि चादर स्तद्बाधकत्यागश्च प्रथमं कर्त्तव्यः । एतदभ्यासतः प्राप्यन्ते क्रमेण महाव्रतानि यतिधर्मदशकं च । अत एष साधुधर्मपरिभावनोच्यते ।
परिभावना भावनाऽभीप्सा विशिष्टोद्यमसचिव-नियतव्रतानुंपालनाभ्यास इत्यनर्थान्तरम् । परमो हि क्षमादिदशविधयतिधर्मः । बाह्याभ्यन्तरसर्वसङ्गपरिहारेणाऽऽराधयितुं शक्य एषः । न च मनोवाक्कायसर्वाशुभप्रवृत्त्यत्याग उदेत्ययम्, नापि महाव्रतविशुद्धिमन्तरेण । अतस्तादृशवीर्योल्लासस्यात्मनि