________________
पञ्चसूत्रोपनिषद् चिदध्यवसायः - अहो ! कीदृशः सुन्दरोऽयं धर्मगुणः । अहो मञ्जुलोऽहिंसासत्यादिधर्मः - इत्यादिः । स एषोऽध्यवसाय एव धर्मगुणात्मकफलप्रसूतौ बीजम् । अनेन संजायते तदवाप्तावभिलाषात्मिका चिन्ता । एषा चाकुरस्थानीया । ततोऽपि तत्प्राप्तियत्नः शास्त्रश्रवणरूपो नालसङ्काशः । एवं क्रमेण धर्मगुणस्वीकारोऽपि भवति । स च सम्भवति पापप्रतिघातानन्तरमेव ।तेन ह्यशुभानुबन्धकर्माश्रवनिरोधः, शुभानुबन्धकर्मोपार्जनं च । यद्यपि प्रतिसमयं बध्यत एव कर्म । तथापि तीव्रमिथ्यात्वकषायावेशोपशमत उदेति शुभभावम् । ततोऽपि शुभानुबन्धोदयः । ततश्च धर्मगुणरुचिप्रभवः । इदमत्र तात्पर्यम् - गुणबीजाधानार्थिना प्रथमं तद्गुणोपादेयमतौ यतनीयम | हिंसादीन्यकर्त्तव्यानि मन्तव्यानि । तत्त्याग एव धन्यं भवति जीवनम् । एतच्छ्रद्धात्मकं बीजं हि सम्यक्त्वम् । अत्र भवति मोक्षाभिरुचिस्तत्त्वज्ञानं तत्परिणतिश्च । न सम्भवत्येतत् पापप्रतिघातमन्तरेण जातु, भवरुच्यभावस्य मोक्षाभिरुच्याविर्भावार्थमावश्यकत्वात्, विषयसौख्याभिमानात्मकविषयप्रतिभासज्ञानविगमस्य तत्त्वषरिणति गुणाधिगमायाऽऽवश्यकत्वात् । एतद्गुणानुभावतो हि विषयेषु विषत्वदर्शनम्, भवहेतुतया तत्परिज्ञानम्, एवमेव हिंसादीष्वपि संसारकारणत्वसंवित्तिः । ततश्च नियोगतो मिथ्यात्वादि-पापप्रतिघातः सद्दर्शनगुणलक्षणबीजावाप्तिश्च । - पाप प्रतिघाततोऽशुभानुबन्ध्याश्रवनिरोधः । गुणबीजाधानतः शुभानुबन्ध्याश्रवोदयः । ततश्च हिंसाद्यकृत्याभिलाषलक्षण