________________
पञ्चसूत्रोपनिषद् तद्वक्तव्यता । गुणबीजाधानमन्तरेण धर्मगुणगोचरपरमार्थ श्रद्धानविरहः, अतस्ततस्तद्विचारः | उक्तश्रद्धानं विना साधुधर्मपरिभावनाऽसम्भवात्ततस्तद्वार्ता । तदभावितस्य तद्ग्रहणं न सङ्गतिमङ्गतीत्यतस्तदनन्तरं तदुपन्यासः । अप्रव्रजितस्य तत्पालनयत्नाभावः, अतस्ततः प्रव्रज्याग्रहणविधानम् । न हि तदनुपालनविरहे तत्परमार्थफलसमागमो घटाकोटिमाटीकते, अतस्ततस्तदुक्तिः । ततश्च प्रव्रज्याफलवचनम् । एवं न्याय्योऽत्र सूत्रपञ्चकक्रमः |
न ह्येतत्क्रमोल्लङ्घने सम्भवत्यभिमतसिद्धिः । अत आदृतव्य उक्तः क्रमः |
इह हि पापप्रतिघातगुणबीजाधानाभिध आदिमे सूत्रे प्राणातिपातविरत्यादयो गुणतयाऽभिप्रेताः । हिंसादिदोषगोचरा प्रकृत्यैवारुचिः स्यात्, ततोऽपि तत्त्यागप्रतिज्ञा भवेत्, स गुणः | तत्रापि स्वर्गादिसौख्याशंसयऽऽचर्यमाणो हिंसात्यागादिरकिञ्चित्करः । नैष गुणः, तृष्णाप्रधानत्वात् । किन्तु- भववर्धनानि खलु हिंसादिदुष्कृतानि । मोक्षनिरोधकानि । एभिरात्मनोऽधमावस्था - इति विज्ञाय विधीयमान-स्तत्त्यागोऽहिंसाद्यादरप्रसूतो गुणः । इह द्वितीयसूत्रे तद्गुण स्वीकारवक्तव्यता, प्रथमे तु तद्बीजाधानवार्ता ।
बीजाधानम् - यस्य कस्यचिदपि गुणस्य प्रथममाधीयते बीजम् । ततश्चाकुराद्युत्पत्तिक्रमेण भवति तत्फललक्षणगुणप्रसूतिः । धर्मगुणप्रशंसा तबीजमिति ललितविस्तरा । यथा धर्मगुणं दृष्ट्वोपदिष्टतया श्रुत्वा वा जायते कस्य