________________
पञ्चसूत्रोपनिषद् दारुणपरिणामं सजातं युद्धम् । कथमेतत्प्रवर्तकं वचः सत्यं सुन्दरं च कथयितुं शक्यते ? कथञ्च तदनुसरणे मैत्रीकारुण्यादिभावस्सम्भाव्यते ? कथञ्च तदङ्गीकारो मोक्षप्रदस्स्यादिति विचिन्त्यं माध्यस्थ्यमास्थाय ।
इतश्च पश्यतां पञ्चसूत्रोपदर्शितविधिप्रभावः । श्रीऋषभदेवेनाष्टानवतिपुत्रा भरतेन सह युयुत्सवः प्रतिबोधिताः, यथा - न हि भरतो वो रिपुः, अपि तु हृदयस्थिता विषयतृष्णा कषायाश्च । एभिरेव भवति युष्माकं भरते रिपुत्वदर्शनम् । न हि युष्मद्राज्यगृहीष्यन्नपि भरतो युष्माकं परलोकेऽहितकृत् । तृष्णादयस्तु नियोगतोऽहितकारिणोऽतस्त्याज्यास्ते । 'सल्लं कामा विसं कामा कामा आसीविसोवमा । कामे य पत्थेमाणा अकामा जंति दुग्गइं ।।'
अतोऽनन्तकालत आत्मकदर्थनाप्रवृत्ता आन्तररिपव एव विजेयाः । एवमेव महादुर्लभमानवभवावाप्तिसार्थक्यमपीति |
एतदुपदेशाकर्णनेन प्रशमिता अष्टानवतिपुत्राः । सम्बुद्धाश्च । गृहीता प्रव्रज्या । जातानुशयः समागतो भरतः । ययाचे क्षमाम् । प्रार्थयति राज्यं स्वीकर्तुम् । दृढव्रतास्तु महात्मान आराधनैकनिमग्नाः क्रमेण प्रापुः परमज्ञानम् । न रक्तबिन्दोरपि बभूव निपातः | विलीनो रिपुभावः । आप्लाविता हृदयवसुन्धरा मैत्रीकारुण्यपुण्यरसपूरेण । भरतोऽप्यग्र आससाद कैवल्यम् । तदेतत्सर्वमपि सर्वज्ञवचसः सत्फलम् । तच्च सगृहीतमत्र पञ्चसूत्रकाभिधे शास्त्रे । अत इदं सत्यं सुन्दरं चेति ।
न हि पापप्रतिघातविरहे गुणबीजाधानं नामेति प्रथममत्र