________________
पञ्चसूत्रोपनिषद् अत्र परमात्मनमस्कारो मङ्गलम्, अभिमतशुभकार्यविघ्नभूतानन्तरायकर्मविनाशप्रयोजकत्वात् । अवश्यं कर्त्तव्य एष शुभानुष्ठानारम्भे, सुवर्णसिद्धिमन्त्राद्यतिशायित्वात्, अत एव पारमर्षम् - 'इक्को वि नमुक्कारो जिणवरवसहस्स वद्धमाणस्स। संसारसागराओ तारेइ नरं व नारी वा' इति (सिद्धस्तवे ३)। को नु सुज्ञोऽत्राचिन्त्य सामर्थ्य भगवन्नमस्कारे प्रमाद्येत् ? इतोऽयं महानुभावः, भगवदाज्ञोरीकाररूपत्वात् । यदि चानेन संसारोत्तारोऽपि सम्भवी, तदा सद्गति-विशिष्टसिद्ध्याद्यवाप्तौ दारुणापन्निवारणे तु किं वाच्यमिति ।
पञ्चभिः सूत्रैर्निर्मितं शास्त्रं पञ्चसूत्रकम् । तच्चात्र सता विशेषितम् । सत् सत्यं सुन्दरं च । सत्यम्, तदुक्तप्रक्रियायथोक्ताराधनातोऽवश्यं मुक्तिप्राप्तेः । सुन्दरम्, तदभिहितमोक्षसाधकप्रक्रियया मनोरमत्वात्, सम्भवत्त्वात्, स्वपरहितसाधकत्वाच्च । नानया परपीडालेशोऽपि । स्वपरान्यतरस्याप्यहिता प्रक्रिया भवत्यसुन्दरा । नेदृशीयम् । अत इयमेवाद्रियते प्रेक्षावद्भिः । तदादरस्यैव प्रेक्षाफलत्वात् ।
बहव उपलभ्यन्ते मुक्तिवादाः । किन्तु न तेषु भवति सर्वथा सत्यत्वम्, नापि तत्साधन प्रक्रिया भवत्येकान्तसुन्दरा | यथा - नैष विरागः, अपि तु कातरता तव । अजरामरो ह्यात्मा । मा भूत्ते हिंसकत्वाभिमानः । युध्यस्व प्रगल्भतया - इत्यादिवचोभिर्जिष्णुना प्रेरितोऽर्जुनो युद्धे । स च प्राग् गुरुजनवधपातकभयेन युद्धनिर्विण्णोऽपि कारितस्तेन युद्धम् । एवं पूज्यैः सह योधनेन, दारुणद्वेषदुर्ध्यानविषयतृष्णादिवर्धनेन