________________
पञ्चसूत्रोपनिषद्
यस्मिन् शरण्यतापुण्य-कारुण्यकेलिकोविदे । . कुन्थोरप्यपवादो न, कुन्थुनाथोऽस्तु स श्रिये ।।१७।।
संसारावारपारस्य, पारगस्य पदाम्बुजे । स्तुवे श्रीअरनाथस्य, चक्रिणो धर्मचक्रिणः ।।१८।।
राजषट्कं सकामं तु, निष्काममभवद्यतः । वैराग्यवार्निधिं मल्लि-नाथस्य शस्यमानुवे ।।१९।।
आलिङ्गितदधिमुखो, यथाऽभूदञ्जनाचलः । जन्माभिषेचने यस्तं, नौमि श्रीमुनिसुव्रतम् ।।२०।।
मदर्थं राज्यश्रीस्तेन, त्यक्तेतीवानुरागिणी । वव्रे कैवल्यश्रीर्यं तं, नमिनाथमुपास्महे ।।२१।।
हरिणो हारिनारीभि-हावभावादिभिर्विभुः । नाप मनोभुवं योऽसौ, श्रीनेमिः शरणं मम ।।२२।। इन्दीवरेन्दिरां मुष्णन्, इन्दिन्दिरान् विलोभयन् । राजमानो विरोकोऽयं, पार्श्वेश्वरः पुनातु वः ।.२३।।
विषमेषु समस्यास्या-ऽनार्येष्वप्यार्यदर्शिनः । श्रीवीरस्वामिनश्चित्रं, चरित्रं समुपास्महे ।।२४।।
इह हि परमकारुणिको व्याख्याकार आदौ मङ्गलाद्यभिदधन्नाह
प्रणम्य परमात्मानं, महावीरं जिनोत्तमम् । सत्पञ्चसूत्रकव्याख्या; समासेन विधीयते ।।