________________
२
पञ्चसूत्रोपनिषद्
-
चन्द्रप्रभाप्रभः प्रेष्ठ
चन्द्रलाञ्छनलाञ्छितः ।
चन्द्रपुरीपतिः सोऽयं पातु चन्द्रप्रभः प्रभुः ।।८।।
नीहारहारसङ्काशा, कुन्दवृन्दसमप्रभा । शुभ्राभ्रशुभ्रध्यानं वः, सुविधिशोचिरादिशेत् ॥ ९॥
कर्पूरपूरनिर्जेता, चन्द्रचन्द्रकरातिगः । अस्त श्रीखण्डखण्डोऽसौ, शीतलः पातु वो जिन: ।।१०।।
सिंहपुरीपतिः सिंह- सत्त्वः सत्त्वकृपापरः । श्रेयः श्रीशरणः स्वामी, श्रेयांस श्रेयसेऽस्तु वः । । ११ ।।
-अतिरम्भोर्वशीतिलोत्तमा अप्सरउत्तमाः । विहाय यतितामितो, वासुपूज्यः पुनातु वः ।।१२।।
विमलकेवलालोका -ऽऽलोकितालोकलोककः । विमलोऽसौ विभुर्दद्या - द्विमालोकमञ्जनम् ।।१३।। साद्यनन्तस्थितिः शान्त - सान्तानादिस्थितिः स्थिरः । अनन्तोऽनन्तमानन्दं दिशतु द्विषदन्तकृत् ।।१४।।
रत्नपुरीपती रत्न - त्रयीरत्नफलात्मकः । धर्मनाथो मदोन्माथ:, स्वसनाथान् करोतु वः ।। १५ ।। प्राज्यं षट्खण्डसाम्राज्यं, सम्राट् सन्त्यज्य धूलिवत् । श्रामण्यं प्रतिपन्नोऽसौ, शान्तिः शान्त्यै जिनोऽस्तु वः ।।१६।।