________________
. अथ
पञ्चसूत्रोपनिषद्
मङ्गलम्
ऐन्द्रवृन्दविवन्दारु-वृन्दारकाभिवन्दितम् । श्रीनाभेयं जिनं स्तौमि, कुन्दवृन्दसमस्मितम् ।।१।।
धर्मचक्रमहाचक्री, चक्रिण अग्रजोऽजनिः । चक्रिचक्रातिगोऽजितो, जितं जापयताज्जिनः ।।२।।
सङ्घवात्सल्यसावित्री-सूत: सूतशिवः शिवः । सम्भवः सम्भवः श्रीणां, भवाभावकृदस्तु वः ।।३।।
करिकर्णाङ्गनाऽपाङ्ग-लोलं लोलतमत्वतः । कपिवत् कपिवन्मेऽन्तः, सार्वाभिनन्दनं श्रयेत् ।।४।।
सुमेरौ सुरसुरीभिः, स्नापितोऽपि ससम्भ्रमम् । सुमतिस्वनुवृत्तिस्स्यात्, सुमतिः सुमतिप्रदः ।।५।।
प्रवालजालसङ्काशा, गुञ्जार्धरागसन्निभाः । पद्मप्रभप्रभाः पान्तु, भावारिकोपकल्पिता: ।।६।। - पृथ्वीव प्रक्षमा पृथ्वी - प्रसूतः प्रसूतः प्रभुः । सुपार्श्व: श्रीसुपार्थोऽसौ, सार्वस्तनोतु सार्वताम् ।।७।।
प
रका