________________
३८
पञ्चसूत्रोपनिषद् रागप्रयुक्ता सा । (१०) हेयो द्वेष इति प्रसिद्धं लोके । रागोऽपि हेय इति तु वीतरागशासनमात्रम् । किञ्च (११) कारयति दुर्ध्यानं द्वेषः, इति मन्यते जनः । न च तत्कारकत्वमधिकमपि सत् प्रतिभाति रागे । (१२) प्रकटीभवत्यन्तरुद्भूतद्वेषो वदनविकारादिभिः, न तु प्रायो रागः । ज्ञायते च 'कृतो मया द्वेषः' - इति, न तु - 'विहितो मया रागः' - इति । न हि दुर्गुणतया भावरिपुरयं ममेति परिचयमेति रागः प्रायः । (१३) हिंसाहेतुढेष इति परिणामालोचनेन सम्भवति तत्त्यागः | रागस्त्वात्मनो भावहिंसाया अपि हेतुः, दुस्त्याज्यश्च । (१४) न हि रागान्धा जानन्त्यात्मभावहिंसाम्, तत्त्वादेव । (१५) सम्भवति द्वेषोदयानन्तरमनुशयः, न तु रागोदयात् पश्चात्प्रायः । अपि च (१६) अस्मद्वेष्योऽप्यस्मान् न द्विषेदित्यभिलषन्तोऽपि वयमिच्छामः- मा भूद्रागपात्रस्यास्मासु रागभङ्गः - इति । एवं दुर्धरो विरागः, दूरुच्या च स्वगोचरपरविरक्तिः । तदेतत्तत्त्वं रागदुर्मोक्षतामेव व्यनक्ति (१७) श्ववदंशति स्वख्यापन पुरस्सरं द्वेषः, मूषकवत्तु रागः । इष्ट वियोगे चानुभूयते तत्पीडा । (१८) क्लिश्यते जीव रागपात्रपोषाय, विधत्ते च तदर्थं पापानि । न तु द्वेषपोषणाय क्लिश्येत् कश्चित् । (१९) वेत्ति जनः - विभावो मम द्वेषः, न तु स्वभाव:- इति । समानेऽपि रागस्य विभावभावे तं प्रतीत्यैतन्नावगच्छति लोकः । (२०) न रुच्यते दीर्घकालीनो द्वेषः; रागस्तु रुच्यते (२१) न ह्येकस्मिन्नेव वस्तुनि सदातनं रागं धारयितुं शक्यते । एवं नश्वरतया त्याज्योऽसौ । किञ्च