________________
२००
पञ्चसूत्रोपनिषद् देवाणं तेउलेस्सं वीतिवयति । एकारसमासपरियाए समणे गेविज्जाणं देवाणं तेउलेस्सं वीतिवयति । बारसमासपरियाए अणुत्तरोववातियाणं तेउलेस्सं वीतिवयति । तेण. परं सुक्के सुक्काभिजाती भवित्ता. सिज्झति, जाव अंतं करेति - इति (व्याख्याप्रज्ञप्तौ) . . . . . . . . . . .. : अत्रोपरितनोपरितनसुराणामधिकाधिकं भवति प्रशमसुखम्, अल्पतराल्पतरविषयतृष्णत्वात् । तेष्वपि नवमादिसुरलोकसुरास्तु मनःप्रवीचाराः । ग्रैवेयकादिसुरास्तुः निर्विकारा एव । न हि परमसुखनिमग्नानां तेषां कदाचिदपि जागर्ति कामभोगतृष्णा। प्रत्याहाराधाराधनानुभावेन द्वादशमासपर्यायो मुनिरतिक्रामत्यनुत्तरसुरस्याषि-प्रशमसुखम् । एतेन ज्ञायते यच्चारित्रस्य कीदृशी परिणतिस्स्यात् । न हि वैदुष्याद्येव चारित्रे प्रमाणम्, किन्तु रागादिविकारोपशमपुरस्सरं श्रुतोपयोगमग्नत्वसचिवं प्रशमोपवनविहरणम् । ..... ..........
एवं प्रशमविशेषमवाप्य शुक्लः शुक्लाभिजात्यो भवत्यात्मा । तत्र शुक्लो नामाभिन्नवृत्तोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति । शुक्लो नामोज्ज्वलसंयमभावसम्पन्नः । एतद्भावस्य लक्षणपञ्चकं सूचयति, यदेतद्भावप्राप्त्यर्थमुपायपञ्चकमादृतव्यम्, तद्यथा - .. :
(१) महाव्रतानामखण्डं पालनं कर्त्तव्यम् । अहिंसादिव्रतेष्वतिचारयोगेनं मलिनी भवत्यात्मपरिणामः । उदेति तामसभावः । द्वितयमत्र भावमालिन्यप्रयोजकम्, हिंसाद्य