________________
पञ्चसूत्रोपनिषद् ध्यवसायः; प्रतिज्ञापालनोपेक्षा च । -- (२) अमत्सरिणा भाव्यम । न कदापि परगुणविभवाद्यसहिष्णुता कार्या । नावकाशो देय इर्ष्यादेः । सम्भवति स्वतोऽधिकतपःश्रुतादिसम्पन्ने मत्सरभावः । स च नाशयति कषायक्षयोपशमात्मकं चारित्रपरिणामम्, तथा चार्षम् - सुट्टु वि उज्जममाणं पंचेव करेंति रित्तयं समणं | अप्पथुई परनिंदा जिब्भोवत्था कसाया य - इति (उपदेशमालायाम्) - -
अतः पूर्वोक्तैः समशत्रुमित्रभाव-सूत्राध्ययन-गुरुबहुमानादिभिः प्रशमस्फात्यापादनेन कर्त्तव्यो मात्सर्यनिकारः । न च गुरुबहुमानतो नाम कथं मत्सरनिरोधः' सम्भवीति वाच्यम्, निःशेषगुणगङ्गाहिमाचलसङ्काशत्वाद् गुरुबहुमानस्य । दृष्टश्च तत्सम्भवः श्रीवज्रस्वामिवृत्ते, तदुक्तंम् - सिरिसीहगिरिसीसाणं भदं गुरुवयणसद्दहंताणं । वयरो किर दाही वायणं ति न विकोवियं वयणं - इति (उपदेशमालायाम्) गुरुबहुमानविरहे तु प्रायोऽभविष्यत्तत्र. मात्सर्योदय इति भावनीयम् | . . . .... (३) सन्ततमपि धारणीयो गुर्वादिगोचरः कृतज्ञभावः । आत्मोन्नतिप्रयोजको महान् हि तत्कृत उपकारः । न कदाचिदपि विस्मर्त्तव्य एषः | न हि पारुष्याहङ्कारस्वार्थलाम्पट्यान्यन्तरेण सम्भवति तद्विस्मरणम् । एते च दोषा 'धर्मपीठिकाभूतान् प्रतिबध्नन्ति मार्दव-तत्त्वाभिनिवेशगुणाभिलाषादिकान् गुणान् । अतो गणयितव्याः पारुष्यादिदोषा आत्मघातकतया | धर्त्तव्यः सदापि. कृतज्ञभावः । एवमेव शुक्लत्वावाप्तेरिति । ।