________________
१९८
पञ्चसूत्रोपनिषद् शास्त्राभ्यासानुभावेन विशिष्टं विवेकमाप्नोति श्रमणः । गुरुप्रसादेनाधिगच्छत्यसौ शुभभावम् । कथञ्चित्तदप्राप्तावपि कर्मक्षयोपशमात्तदात्मनि चारित्रपरिणामस्तु स्यादेव, तद्वियोगे श्रामण्यस्याप्ययोगात् । तदेतत्परिणामभावविवेका उत्तरोत्तरं श्रेष्ठाः | .
(१) तत्तद्गुणपरिणतियोगाद्गुणानुकूलमात्मद्रव्यमात्मपरिणामः । स च प्रकटीभवत्यवसरे सामग्रीयोगात् । - (२) शुभभाव उक्तपरिणामसामग्र्यवसरप्राप्त्या प्रकटीभूतो विशिष्टगुणोल्लासः |
(३) शास्त्राभ्यासप्रादुर्भूतविशिष्टज्ञानशक्तिप्रयुक्ततत्तद्गुणगोचरविशिष्टप्रतीतिर्विवेकः । अनेन हि निर्णीयते वस्तुनो हेतुस्तत्स्वरूपं तत्फलञ्च | इत्यं ह्यमृतानुष्ठानमनुप्रविशत्याराधना | प्रतिपद्यते च प्रकृतिभावमात्मनः | - सोपानत्रयेणात्मनो विकासो दर्शितोऽत्र - (१) परिणामः (२) भावः (३) प्रज्ञा । तत्र - (१) तीर्थयात्रादि निमित्तोद्भूतकर्मक्षयोपशमनेन प्रकृत्या शुभभावोदयः परिणामः । (२) तत्रापि गुरुसंयोगेन विशिष्टोल्लासोदयो भावः । (३) जिनवचनपरिणतियोगावाप्यो विवेकः प्रज्ञा । - यदा हि माषतुषमुनेर्गुरुयोगो नाऽभवत्, तदाप्यात्मनस्तथाविधकर्मलाघवतथाभव्यत्वाभ्यां प्रकृत्या क्षयोपशमयोगेन गुरुबहुमानगोचरदृढतरोपादेयमतिलक्षणः परिणाम उदयमाससाद । ततोऽपि गुरुयोगेन गुरुबहुमानस्य भाव उदभवत् । जम्बूस्वामि