________________
१९७
पञ्चसूत्रोपनिषद् गुरुबहुमानः, हेतुफलभावात् । विभावनीयमत्र शालिभद्रनिदर्शनम् । - न इतो गुरुबहुमानात् सुन्दरं परम् । नोपमाऽप्यत्र विद्यते, येनोपमीयेताऽसौ । ननु गुरुबहुमानादप्यधिकसुन्दरं भगवद्बहुमानमिति चेत् ? सत्यम्, तथाप्यव्याहतमस्य निरूपमत्वम्, जो मं पडिमन्नइ से गुरुं - इति प्रागुक्तवचनाद् भगवद्बहुमानस्य तदन्तर्गतत्वात्, न च समानौपम्यमस्त्वनयोरिति वाच्यम्, अभिन्नत्वादुभयोः । सुन्दरतमश्च भगवद्बहुमानो विश्वेऽपि विश्वे, अनुपमश्च, अतस्तदात्मकस्य गुरुबहुमानस्यापि तत्त्वमिति न किञ्चिदनुपपन्नम् ।
(१४) श्रमणतेजोलेश्या सूत्र : स एवं पण्णे, एवं भावे, एवं परिणामे, अप्पडिवडिए, वढ्ढमाणे तेउल्लेसाए दुवालसमासिएणं परिआएणं अइकमइसव्वदेव तेउल्लेसं एवमाह महामुणी । तओ सुक्के सुक्काभिजाइ भवइ ।... ... ... .. . ...
सः - अधिकृतप्रव्रजितः, एवम्प्रज्ञः- विमलविवेकात् पूर्वोक्तगुरुबहुमानकल्याणस्वरूपावश्यकर्त्तव्यतादिगोचरविशिष्टप्रतीतिसम्पन्नः, एवम्भावः - तथाविधज्ञानावरणीयकर्मोदयेन तादृशविवेकाभावेऽपि गुरुसान्निध्यानुभावेन प्रकृत्या तथाविधशुभभावविभूषितो वा, एवम्परिणामः - सामान्येन गुर्वभावेऽपि, क्षयोपशमान्माषतुषवत् तथाविधात्मपरिणतिसमलङ्कृतः । यथोक्तम् - विवेकशुभभावपरिणामा वचनगुरुतदभावेषु यमिनाम् - इति ।