________________
१९४
पञ्चसूत्रोपनिषद् अकिरिआ कुलडानारी किरआसमा, गरहिआ तत्तवेईणं अफलजोगओ ।
विसन्नतत्ती (त्ति) फलमित्थनायं । अवट्टेखु तत्फलं असुहाणुबंधे । ___ आययो गुरुबहुमाणी अवंज्ञकारतेण । अओ परमगुरुसंजोगो । तओ सिद्धी असंसयं । ___ एसेह सुहोदए पगिट्ठतयणुबंधे भववाहितेगिच्छी न इओ सुंदरं परं | उवमा इत्थ न विज्जइ। .
तदेतद्भावारोग्यप्रद स्यात्यन्तमुच्चावस्थादायकस्य भाववैद्यस्य गुरोर्महाननुपमश्चोपकारः । अतोऽतिबहुमानगोचरीकरोत्येनं श्रमणः । यथोचितमसङ्गप्रतिपत्त्या च सेवत एनम् । असङ्गप्रतिपत्त्येति (१) विमुच्य प्रतिकृत्याशंसाम् (२) गुरुगोचरस्नेहरागमन्तरेण (३) स्वभावत एवं तद्बहुमानादिकं कुर्यात् । भावसारमुरीकुर्यात्तद्गुरुत्वम् । निसर्गप्रवृत्तिभावेन - सांसिद्धिक - प्रवृत्तित्वेन हेतुना, एषाऽसङ्गप्रतिपत्तिणुर्वी व्याख्याता भगवद्भिः । यतः - भावसारा, तथौदयिकभावविरहेण, न ह्यस्यां कीर्त्यादिप्रयोजनत्वं मोहनीयोदयात्मक भक्तिभावो वा, अतो गुरु बहुमाने रागमोहनीयादिकर्मोदयरूप औदयिकभावो हेतुर्न भवतीति हृदयम् । अतो हि हृदये प्रशस्ताध्यवसायान्वयः । मलिनरागादिभावसाचिव्ये तु सा ससङ्गप्रतिपत्तिर्भवेत् । सा च तथाविधरागाद्यपगमेऽपगच्छति | निसर्गप्रभवा तु रत्नप्रकाशवद्विशुद्धा