________________
१९३
पञ्चसूत्रोपनिषद् भावद्वन्द्वविरहात् प्रशान्तः । रत्यरति-रागद्वेष-हर्षशोकाद्यात्मका हि भावद्वन्द्वाः, एतदभावान्निस्तरङ्गमहोदधिवत्प्रशान्त इति हृदयम् । तेजोलेश्यया शुभप्रभावरूपया वर्द्धते - वृद्धिमनुभवति श्रमणः |
इत्वरकालीनं हि जगतो हास्यादिभवं सुखम् । सदातनं तु गभीराशयस्यानेकगुणं च प्रशमसुखम् । एतद्वक्तव्यता त्वग्रे वक्ष्यते । ..
भोगसुखं ह्यनित्यत्वादिकलङ्ककलङ्कितम् । अतस्तद् विहाय नित्यत्वाद्यलङ्कारालङ्कृत - प्रशमसुखार्थं विधेयो यत्नः । तदाह वाचकमुख्यः -
भोगसुखैः किमनित्यैर्भयबहुलैः काक्षितैः परायत्तैः । नित्यमभयमात्मस्थं प्रशमसुखं तत्र यतितव्यम् - इति (प्रशमरतौ) अन्यत्रापिपराधीनं शर्म क्षयि विषयकाङ्क्षौघमलिनं, भवे भीतिस्थानं तदपि कुमतिस्तत्र रमते । बुधास्तु स्वाधीनेऽक्षयिणि करणौत्सुक्यरहिते, निलीनास्तिष्ठन्ति प्रगलितभयाध्यात्मिकसुखे - इति (अध्यात्मसारे ४)
___ (१३) गुरुबहुमानः · सूत्र : गुरूं च बहू मन्नइ जहोचिअं असंगपडिवत्तीए, निसग्गपवित्तिभावेण ।
एसा गुरुइ विआहिआ भावसारा विसेसओ भगवंतबहुमाणेणं। 'जो मं पडिमन्नइ से गुरूं' ति तदाणा । अन्नहा किरिआ