________________
१९२
पञ्चसूत्रोपनिषद् पालयितव्याः संयमयोगाः । संयमयात्रामात्रार्थमसारं शुद्धं च भोक्तव्यम्, निर्दोषप्रासुकाऽऽहारभोजिना भाव्यमिति भावः । विश्वेऽपि विश्वे श्रेष्ठचिकित्सालयसङ्काशं खलु संयमजीवनम् । तदत्रत्यैर्नियन्त्रणैरपि श्रेष्ठैरेव भाव्यमिति न किञ्चिदनुपपन्नम् ।
एवमवगम्य सद्गुरूपासनतस्तद्गोचरो धर्तव्यो बहुमानप्रकर्षः । चारित्रमेव मनुजभवसारभूतमिति मत्वा विधिना तत् प्रतिपद्याप्रमादसचिवं कुर्यात्तदनुपालनम् । ततो यथा यथा प्रशमं गच्छति कर्मरोगः, तथा तथा दूरीभवति मोहः | नात इष्टवियोग उदे त्यस्य दुर्ध्यानम्, नाप्यनिष्टसंयोगेऽनुशोचनम् । उपशाम्यन्त्यस्य कषायविकाराः । प्रादुर्भवति क्षमादिदशयतिधर्मरूपमारोग्यम् । सम्यगवलोकनेनैत-त्प्राप्तिमवलोक्य संवर्द्धत आत्मनः शुभो भावः । ततश्चाभिलषत्युत्तरोत्तरं विशिष्टतरं चारित्रलक्षणमारोग्यम् । यथा यथा चोपशाम्यन्ति कर्मरोगविकारास्तथा तथाऽधिकाधिकारोग्यलाभयोगात्स्फातिमेत्यस्य चारित्रगोचरः पक्षपातः ।
संवेत्त्यसौ यन्नातोऽपि परं जगति किञ्चित् स्पृहणीयम् । ततश्च तदवाप्त्यर्थं सहर्षं विषहत उग्रपरीषहान्, दिव्याधुपसर्गाश्च । न च बिभेत्येभ्यो मनागपि । सन्ततमपि लक्ष्यतया पश्यति कर्मरोगोपशमप्राप्यमारोग्यम् । अनुभाव एषोऽस्य तत्त्वसंवेदनात्मकस्य सज्ज्ञानस्य । तथा कुशलाशयवृद्ध्या - क्षायोपशमिकभाववृद्ध्या, स्थिराशयत्वेन - चित्तस्थैर्येण हेतुना। तथा धर्मोपयोगात् - इति कर्त्तव्यताबोधात् - मोक्षपर्यन्तनियताऽऽराधनाबोधात् कारणात्, सदा स्तिमितः -