________________
१९१
पञ्चसूत्रोपनिषद् जन्म-जरा-मरण-रोग-शोकाद्यात्मका वेदनाऽनेन । अधुना वेत्त्येनां वेदनां दुःखस्वरूपाम् । न तु दुःखमेवैतत्सुखस्वरूपमितिविपर्यासविषयोभवेदिति भावः । ततश्च परमार्थत उद्विजतेऽतः |
अत्रान्तरेऽवाप्तः सुवैद्यस्थानीयः सद्गुरुः । तद्वचनेन विज्ञातं सद्गुरुस्वरूपं कर्मरोगलक्षणं च तत्त्वतः । महाभयङ्करः खल्वयं कर्मरोगः । एतदपनयनं यदि न कृतम्, तदाऽनन्तं कालं यावद् बाधते दारुणा पीडा । शिरोवेदनादारभ्य षोडशरोगव्यथा अपि कर्मव्याधिप्रसूता । कर्मैव विभवाभिलाषिणोऽपि दर्शयति दरिद्रताम् । स्वातन्त्र्यसमीहस्यापि वितरति पारतन्त्र्यम् । छेदनादियातनां प्रयच्छति नरकादिभवेषु । न नारकोऽभीष्टमप्यवाप्नोति मृत्युमायुःकर्मरोगेण | तिर्यञ्चोऽपि विषहन्ते तीक्ष्णां क्षुत्तृडायुद्भवां वेदनां कर्मातङ्केन । मनुजा अपि दारिद्र्य-प्रेष्यत्व-दौर्भाग्याऽज्ञाना-ऽपयशो-ऽपमाना-ऽन्तरायेष्टवियोगा-ऽनिष्ट-संयोगादिकष्टान् तितिक्षन्ते कर्मरुजैव । देवा अपि मद-मोहे-ा-च्यवन-वल्लभावियोगादिकां दुःषहां व्यथां विषहन्ते कर्मव्याधिनैव । न हि कर्मरोगापगममन्तरेणैतद्दुःखसन्दोहापगमः सम्भवति जातु. I. . ': अत उपायैरपनेयोऽयं रोगः । प्रवर्तितव्यं शुभाश्रवसंवरनिर्जरासु | शुभाश्रवो हि पुण्यानुबन्धिपुण्यवितरणेन वितरति संवरनिर्जरानुकूलसामग्रीम् । संवरो निरुध्णाति नवकर्मप्रवेशम् | निर्जरा च क्षपयति पुराणं कर्म । अत आदृतव्या एत उपायाः । परिहर्त्तव्यं प्रमादाचरणम् । विहातव्यः स्वेच्छाचारः । अप्रमत्ततया,