________________
१९०
पञ्चसूत्रोपनिषद् रोगपीडा, तथा तथाऽऽरोग्यसामग्र्यभिलाषेण दृढतरेणादरेण यतते चिकित्सायाम् । सहर्ष सहते शिरावेधव्यथाम् । प्रीत्या तितिक्षते क्षारक्षेपपीडाम् । ___ एवमनेककष्टभावेऽपि - रोगोपशमेनानन्दमयमारोग्यमवाप्यते - इत्यवगमेनेष्टारोग्यलेशयोगेन च न व्याकुलीभवति । नाप्यधैर्यम सहिष्णुत्वं वा प्रतिपद्यते । किन्तूत्साहसचिवः कारयति रोगचिकित्साम् । बहुमानं च धारयति वैद्ये, यथा - एषोऽगदकारो मम महत्या रोगपीडाया अपनेता । नानेनारोग्यमानं दत्तं मह्यम्; अपि तु वाणिज्य-भोगविलासाद्यपि, तदन्तरेण तदसम्भवात् - इति । तदेतद् दृष्टान्तमुक्तम्, अधुना दार्टान्तिकमाह - .
(१२) कर्मरोगचिकित्सा सूत्र : एवं कम्मवाहिगहिए अणुभूअजम्माइवअणे विण्णाया दुक्खरूवेणं निविण्णे तत्तओ । तओ सुगुरुवयणेण अणुठठाणाइणा तमवगच्छिअ पुतविहाणओ पवन्ने सुकिरिअं पव्वज्जं, निरुद्धपमायायारे, असारसुद्धभोइ, मुच्चमाण कम्मवाहिणा, निअत्तमाणिट्ठबिओगाइवेअणे, समुवलब्भ चरणाऽऽरोग्गं पवड्ढमाणसुहभावे तल्लाभनिव्वुइ, तप्पडिबंधविसेसओ परीसहोवसग्गभावे वि तत्तसंवअणाओ कुसलासयवुढ्ढीए थिराऽऽसयत्तेण धम्मोवओगाओ सयाथिमिए तेउल्लासाए पवड्ढई ।
एवं कर्मव्याधिना गृहीतोऽस्ति जीवः । अनन्तशोऽनुभूता