________________
पञ्चसूत्रोपनिषद्
१८९ मप्यनुभवत्येषः, अप्रतिहतचित्तप्रसादत्वात्, सच्चिकित्साप्रवृत्तरुग्णवत् । विजानात्येषः, यथा नोपसर्गादिभिः काचिद्धानिर्मदात्मनः । नैभिरंशेनाप्यात्मनो ज्ञानस्य सुखस्य वापि प्रतिघातः सम्भवति । अपि त्वात्मनो गुण एव, पापकर्मक्षपणप्रयोजकत्वादेषाम् । चिकित्साज्ञातमेव कण्ठत आह -
सूत्र : से जहानामए केइ महावाहिगहिए अणुहूअतव्वेअणे विण्णाया सरूवेण निविण्णे तत्तओ | सुविज्जवयणेण सम्म तमवगच्छिअ जहाविहाणओ पवण्णे सुकिरिअं । निरुद्धजहिच्छाचारे, तुच्छ पच्छभोइ, मुच्चमाणे वाहिणा, निअत्तमाण वेअणे, समुवलब्भाऽऽरोग्गं पवढमाणतब्भावे, तल्लाभनिब्बुईए तप्पडिबंधाओ सिराखाराइजोगेवि वाहिसमारूग्गविण्णाणेण इट्ठनिप्फत्तीओ अणाकुलभावयाए किरिओवओगण अपीडिए अव्वहिए सुहलेस्साए वड्ढइ, विज्जं च बहुमण्णइ । - यथा कश्चित् कुष्ठादिमहाव्याधिगृहीतस्सन्ननुभवन् तत्पीडाप्रकर्षं विजानाति सम्यक् स्वरुग्णभावम् । नैष कच्छूकण्डूयकवदविज्ञातस्वव्याधिस्स्यादिति. भावः । ततश्च तत्त्वतो रोगनिर्विण्णोऽसौ कञ्चित् सुवैद्यं प्राप्य तद्वचनेन सम्यगवगच्छति स्वव्याधिम् । ततोऽपि तदुक्तविधिना प्रवर्तेत तच्चिकित्सायाम् । परिहरति रोगवृद्धिभयतोऽपथ्यम् । अभ्यवहरत्यसारं पथ्यद्रव्यम् । ततश्च क्रमेण मुच्यतेऽसौ व्याधिना । न निर्विद्यते कट्वौषधैः । विषहते प्रतिक्रियाप्रयुक्तां पीडाम् । भावसारं शृणुते वैद्यवचनम् । अनुसरति च तत् । ततश्च यथा यथाऽऽप्नोत्यारोग्यम्, यथा यथा चापगच्छति