________________
१८८
पञ्चसूत्रोपनिषद् मुत्तरोत्तरमधिकमात्मविकासं कुर्यात् । यथाऽद्यैकविकृतिस्त्यक्ता, श्वस्तद्वयं त्यजेदिति । प्राक् सामान्यं परीषहं सहर्षं त्यजेत्, तत उग्रपरीषहमपि । ततोऽपि सापेक्षयतिधर्मसोपानादरोहयेन्निरपेक्षयतिधर्मम् । उत्तरोत्तरयोगसिद्धौ साक्षिभावं भजेदस्यान्तरात्मा ।
एवञ्च यथा यथा धर्मयोगेषु प्रगतिं कुरुते, तथा मुच्यते पापकर्मभिः । ततश्च प्रादुर्भवन्ति ते ते गुणाः । यथा तपोयोगसिद्ध्याऽऽहारसञोत्तेजकपापकर्मविगमः । ततश्च क्षुत्पीडितस्यापि नार्तध्यानं भवति, किन्त्वाऽऽहारसज्ञानिरोधयत्न एवेति । ततश्च व्रजत्यस्थिरात्स्थिरं दीपं प्रति ।
सूत्र:-विसुज्झमाणे आभवं भावकिरिअमाराहेइ ।
एवं घातिकर्मलक्षणपापतो मुच्यमान उत्तरोत्तरं विशुद्ध्यत्यात्मा । ततश्चाजन्मा संसारं वा भावक्रियां निर्वाणसाधिकामाराधयति । सा चौचित्यारम्भनिर्वहणरूपा । औचित्येनानुपालयत्येष संयमतपोयोगान् । निर्वहति च सम्यगारब्धान् योगान् । प्रापयति गुणान् परां काष्ठामित्यर्थः । ___ सूत्र : पसमसुहमणुहवइ अपीडिए संजमतवकिरिआए अव्वहिए परीसहोवसग्गेहिं वाहिअसुकिरिआनाएणं ।
एवं सकष्टमपि संयमतपोऽनुष्ठानमनुपालयननुभवति प्रशमसुखम् । न खिद्यते, नाप्याप्नोत्ति ग्लानिम् । नोद्विजते मनोज्ञविषयवैमुख्यलक्षणेन प्रतिस्रोतोगमनेन । नानशनादिबाह्यतपसि प्रायश्चित्ताद्यभ्यन्तरतपसि वा कष्टलेश