________________
१८७
पञ्चसूत्रोपनिषद्
एवम्भूतस्सनसंसक्ततयाऽऽराधयेच्छ्रमणयोगान् । विजातीयोन्मिश्रं हि संसक्तमुच्यते, यथा कीटादिमिश्रितं पिष्टम् । प्रकृते तत्तत्काले कर्त्तव्येषु योगेष्वन्याशुभस्य शुभस्य वा योगस्य यथा मिश्रत्वं न स्यात्, यथा चान्यस्य शुभयोगस्यापि विचारमात्रमपि न स्यात्तथा यतनीयमिति भावः । एवमेव सूत्रानुसारित्वोपपत्तेः ।
निःसपत्नश्रामण्यव्यापारे यतितव्यमिति हि सूत्राज्ञा, तदुक्तम् - जोगो जोगो जिणसासणम्मि दुक्खक्खया पउंजंतो । अण्णोण्णमबाहंतो असवत्तो होइ कायव्वो - इति । न हीर्यासमितिपालनावसरे स्वाध्यायः कर्त्तव्यः, एवमेवासपत्नयोगाराधनासम्भवात् । संसक्तयोगाराधने हि दुर्लभः खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्यमुद्रुगासङ्गदोषपरिहारः । ततश्च यथाक्रममष्टयोगदृष्टिबाधः । अतो यतनीयमसंसक्तयोगाऽऽराधनायाम् | एतदभ्यासेनैव क्रमेणावाप्यतेऽनासङ्गयोगः, ततोऽपि सार्वझ्याऽऽविर्भावः, वीतरागभावोदयश्च ।
(१०) योगसिद्धिफलम् सूत्र : उत्तरोत्तरजोगसिद्धिए मुच्चइ पावकम्मुणत्ति ।
एवमभ्रान्तानुत्सुकभावसचिवाऽसपत्नयोगाराधनात उत्तरोत्तरं विशुद्धतरा सिध्यति धर्मप्रवृत्तिः । तथा च तपसः पारणमप्युन्नतिनिबन्धनं स्यात् । यथा श्रीगौतमस्वामिप्रतिबोधितपञ्चदशशततापसानां पारणानन्तरं कैवल्योदयो बभूव ।
एवं हि प्रत्येको धर्मयोगोऽनुष्ठातव्यः, यथा तदनुष्ठान