________________
१८६
पञ्चसूत्रोपनिषद् भवइ ।
यथाशक्त्यसम्भ्रान्तोऽनुत्सुकश्च स्यान्मुनिः । असम्भ्रमानौत्सुक्यार्थत्रितयम् - (१) मनोवाक्कायसत्कसर्व-सामर्थ्यन परिहरति फलप्राप्तिविषयं भ्रममुत्सुकभावं च | संवेत्ति चैष यथा - भविष्यत्येव मम फलाधिगमः, ज्ञानिप्रोक्तत्वात् - इति । ततश्च कर्त्तव्यमात्रपरायणो भवत्यसौ । तथा फलौत्सुक्येन सदनुष्ठानोपयुक्ततामपि न निहन्त्येषः । न हि रसवत्यपि सिध्यत्यभीक्ष्णमौत्सुक्येन तन्निभालनतः । फलौत्सुक्येन हि नानुष्ठानार्पितमास्ते मनः , ततश्च प्रणिधानविच्युतिः, ततोऽप्यभीष्टफलसिद्धिविरहः । अतस्त्याज्यं तत् ।
(२) निवृत्तिमार्गेऽभ्रान्तः, प्रवृत्तिमार्गे चानुत्सुकः स्यात् । अयं भावः - गृहाद्यारम्भपरिग्रहेभ्यो मुक्तो मुनिन कदाचिद्विचारयेत्, यथा - यदि तन्निवृत्तिर्न कृताऽभविष्यत्तदा वरमभविष्यदिति । एवंविधभ्रममुक्तस्स्याच्छ्रमणः । आत्मनो महाप्रतिकूलं तत्त्यक्तम्, तन्न्याय्यमेवेत्यभ्रमसम्पन्नो भवेदसौ । एवं प्रवृत्तिमार्गेऽप्यमुके नैतावदधीतम्, मम त्वल्पमेव सञ्जातमध्ययनमित्याद्यौत्सुक्यं परिहरेत् । परचिन्तायाः स्वचिन्ताभ्रंशहेतुत्वात्, खेदादिनिबन्धनत्वाच्च ।
(३) शुद्धात्मानुलंक्षिव्यापार आन्तरभावः । तस्मिन्नभ्रान्तस्स्यान्मुनिः । उपादेयमतिरस्याप्रतिहता भवेत्संयमादियोगेषु । न भवति वस्त्रपात्रादिबाह्यभावेषूत्सुकः | नानुकूलवस्तुप्राप्त्यर्थं तद्रक्षार्थं प्रतिकूलवस्तुविरहार्थं तदनागमार्थं वोत्सुको भवेन्मुनिः ।