________________
पञ्चसूत्रोपनिषद्
१८५
प्रोक्तोपायादृत्या स्वभावगता भवेदात्मनो गुणाः । शुभसामग्रीमन्तरेणापि प्रकटितो भवेदात्मनि ज्ञानदीपकः । ततश्चपुरःस्थितेष्वपि मनोज्ञविषयेषु विरागदाढर्यप्रकर्षतो न मनस्यपि विकारस्स्यात् ।
क्रोधावसरे विचिन्त्यम्, यथा शत्रुरपि कर्मक्षपणसहायतया मित्रमेवेति किमस्मै कुपितव्यम् ? अपि तु स्वपापेन भ्रमिष्यत्येष संसारम्, अतोऽनुकम्प्योऽयम् । किञ्च यद्यहं कोपं करिष्यामि, तथापि (१) अवश्यं भोक्तव्यान्येव मया पूर्वोपार्जितानि कर्माणि । (२) तत्रापि कोपप्रयुक्तो भविष्यति नवः कर्मबन्धः । (३) पुनर्नवीभविष्यन्ति दृढतां गमिष्यन्ति च कषायादिकुसंस्काराः (४) हारयिष्यामि मनुजभवप्राप्तः क्षमाभ्यासावसरम् (५) क्रोधं करिष्यता मया परस्याप्येतेऽपाया विधास्यन्ते । अहोऽनर्थनिकुरम्बं कोपहेतुकमिति विचार्य भूयात् समशत्रुमित्रः ।
-
प्रागुक्तोपायनवकसेवनसाधनपञ्चकम् - (१) सदापि धर्त्तव्योऽप्रमत्तभावान्वयः । (२) भेतव्यं पुद्गलपरिचयमात्रात् । (३) इष्टेतरोभयसंयोगेषु समास्थेयं माध्यस्थ्यसुस्थितेन । (४) भावयितव्यं निर्विकारत्वादिवैशिष्ट्यविशिष्टमात्मस्वरूपम् (५) कर्त्तव्यस्तपःसंयमस्वाध्याययोगेषु निरन्तरः पुरुषार्थः । एवमध्यवसायविशुद्धिक्रमेण क्षपकश्रेणिसमारोहणेन क्षायिकचरण-क्षायिकज्ञानलक्षणौ प्राप्येतेऽस्पन्दनवद्द्वीपस्थिरदीपौ ।
(९) असम्भ्रमत्वादियोगः
सूत्र : जहासत्तिमसंभंते अणूसगे असंसत्तजोगाऽऽराहए