________________
पञ्चसूत्रोपनिषद्
१९५ स्थिरा च भवति । एतदनुभावेन गुर्वा व सर्वत्र प्रयोजकभावं प्रतिपद्यते । गुरोरिच्छेव शिष्यस्येच्छात्वमुपयाति । एतदवस्थान्तरानधिगमे तु तात्त्विकस्य बहुमानस्यैव गुरुगोचरस्य विरह इति सूक्ष्ममीक्षणीयम् ।
एषा ह्यसङ्गप्रतिपत्तिर्मिथ्यात्व-कषायमोहनीयक्षयोपशमप्रभवतया भावसारा भवति । यतो गुरुप्रतिपत्तौ विशेषतोऽचिन्त्यचिन्तामणिसमस्याहतो भगवतः प्रतिपत्तिः, गुरुबहुमानो हि परमार्थतस्तीर्थकरप्रतिबन्धः, यत एषा जिनानामाज्ञा यदुत - यो मां प्रतिमन्यते भावतः स गुरुम् - इति ।
अन्यथा - गुरुबहुमानव्यतिरेकेण क्रियाऽप्यक्रिया प्रत्युपेक्षणादिरूपा । अक्रिया- सत्क्रियातोऽन्या । किंविशिष्टा इत्याह-कुलटानारीक्रियासमा - दुःशीलवनितोपवासक्रियातुल्या। यद्यपि कुलटा करोति पतिसेवाम्, व्यनक्ति पातिव्रत्यम्, तथापि परपुरुषे बाढमासक्ततया विफलैव तस्याः सा सा क्रिया । एवं गुरुंबहुमानविरहे सकष्टाऽपि चरणक्रिया न मोक्षफला, अपि तु भवबम्भ्रमणपर्यवसानेति तात्पर्यम् । ... . ___ ननु च मोक्षफलं चारित्रानुष्ठानमिति प्रसिद्धम् । तत्फलत्वाभावेऽपि संसारफलत्वमस्य कथमिति चेत् ?. विषान्नतृप्तिनिदर्शनेनेति गृहाण । तथा हि पुष्टिप्रदमन्नं पुष्णाति शरीरम् | किन्तु यदि तदेव सविषं स्यात्तदा क्षणतृप्तिप्रदत्वेऽपि शीघ्रं प्रकटयत्येव तत् परिणामदारुणत्वमात्मनः । सङ्कोचमिन्ति शिरावृन्दम् । अचिरेणैव प्राप्यते पञ्चता । एवं गुरुबहुमानकरणगोचरजिनाज्ञाविराधनेन संसारफलनिष्पत्तिरिति ज्ञेयम् ।