________________
पञ्चसूत्रोपनिषद्
१८३ क्षायोपशमिकधर्मानुपालनं प्रायः शास्त्रवचनगुरुदाक्षिण्यलोकलज्जा-कर्मविपाकसाध्वसादिभिः प्रयोजकभूतैर्भवति । अतो वक्ष्यमाणोपायनवकमनुसतव्यं क्षायिकधर्मप्राप्तये -
(१) निषिद्धपरिहारो विहितसेवनं च यथा स्वभावगतं स्यात्तथा जिनाज्ञाराधने यतितव्यम् । यद्यप्येतदाराधनं प्रेत्य सुखनिबन्धनं भवति, तथापि न सुखप्रयोजनेन तत्र प्रवृत्तिः, अपि तु प्रकृत्या स्यात्, तथाऽभ्यासो विधेय इति हृदयम् । एतदर्थमपि -
(२) दोषान् प्रति परप्रवृत्तिं प्रति च धर्तव्यो जुगुप्साभावः । न हि प्रेत्य दुःखनिबन्धनतयैव त्याज्या हिंसादयः, अपि तु निसर्गतो हेयतया परप्रवृत्त्यात्मकतया च । इत्थञ्च यथा स्वभाव एवाहिंसादिमयस्स्यात्तथा यतितव्यम् ।..
(३) भावयितव्याऽनवरतमहिंसादिगोचरा सुन्दरा भावना | एवं चिन्तनीयं हिंसादिदोषाणामधमत्वम् ।
(४) यद्गुणपालनदोषत्यागार्थं प्राग् बाह्यसामग्री मवलम्बितवान्, तदर्थमधुना स्वात्मानमवलम्बयेत् । यादृशा हि शुभभावा प्राग् जिनमूालम्बनेनोदयमापुः, तादृशा अधुना तदालम्बनमन्तरेणाप्युदयं प्रापणीयाः ।
(५) प्रागशुभालम्बनवियोग एव समभवत् शुभभावोदयः, तत्संयोगे तु सद्योऽभवच्चित्तक्षोभः । साम्प्रतं तु तद्योगेऽपि यथा शुभभावभेदो न स्यात्तथा दाढ्य विधेयम् । .
(६) स्मर्त्तव्या प्राक्तनमहापुरुषपराक्रमाः । यैरुत्कंटभोग