________________
१८२
पञ्चसूत्रोपनिषद् भवसागरे हि विप्रकीर्णं भवत्यात्मनः क्षायोपशमिकक्षायिकसम्यक्त्व-क्षमा-नम्रता-संयम-ज्ञान-वीर्याऽव्याबाधसुखाऽक्षयस्थित्यादिरूपं विभवकदम्बकम् । तच्च सुरक्षितं स्याच्चारित्रद्वीपे, सुस्थस्स्यादात्माऽप्यत्र | .
तथा ज्ञानदीपः प्रकाशं प्रयच्छति घोरे संसारकान्तारे । वने ह्यन्धतमसे कण्टक-शिलाकणादिप्रयुक्तवेधव्यंथामाप्नोति जीवः । लूण्ट्यते लूण्टाकैः । मुह्यते निकुञ्जषु । कम्पते श्वापदशब्दैः | चर्व्यतेऽपि तैः ।
तदत्र भवकान्तारे निर्भयीभवति ज्ञानदीपकं प्राप्य । एतत्प्रकाशेन पश्यति जीवः क्रोधादिलूंण्टाकान् । ततश्च सम्यग् रक्षति स्वकीयान् क्षमादिगुणरत्नान् । अवत्यात्मानमनाचारश्वापदेभ्यः । परिहरत्याश्रवकण्टकान् । परिजानाति संवरनिर्जराराजमार्गम् । अवगच्छति हेयोपादेयोपेक्ष्यतत्त्वान् । संवेत्त्यातरौद्रध्याने । ततश्च सम्यक्करोत्यात्मरक्षणम् । प्रकटयत्यात्मनो विशुद्धतरं स्वरूपम् ।
एवंविधं द्वीपं दीपञ्च प्राप्य यथाऽस्पन्दवद्द्वीपः स्थिरदीपश्च प्राप्येत्, तथा यतितव्यम् । एतच्च सम्भवति शुभभावनाशुक्लध्यानावलम्बनेन, अस्थिरज्ञानदीपकसामग्री तैलवादिरूपां क्षायोपशमिकत्वात् क्षायिकतां प्रापणेन, सम्यक्त्वसप्तषष्टिव्यवहारपरिपालनेन, तत्त्वभावनाप्रकर्षतो दर्शनसप्तकक्षपणप्रत्यलायां क्षपकश्रेणावध्यारोहणेन च, एवमेव क्षायिकसद्दर्शनावाप्तेरिति भावनीयम् ।