________________
पञ्चसूत्रोपनिषद्
१८१
उभयत्राऽऽद्यो विलम्बेनेष्टसिद्धये, सप्रत्यपायत्वात्, द्वितीयस्त्वविलम्बेन सिद्धिप्रदः, निष्प्रत्यपायत्वात् । सम्यगेतद्विजानाति श्रमणः, न केवलं विजानाति किन्त्वस्पन्दनवत्स्थिरार्थमुद्यमं करोति सूत्रनीत्या ।
यथा हि द्वीपावाप्त्या न भवति सागरे निमज्जनम् । आश्वासरूपो भवति द्वीपः एवं भवसागर आश्वासयति चारित्रद्वीपः । यथा रक्षति द्वीपः हिंस्रेभ्यो जलचरेभ्यः । अपनयत्येष तीव्रक्षुत्पिपासापीडाम् । निराकरोत्येष क्षारजलसंसर्गजन्यवेदनाम् । न हि सागरे निमज्जितस्योच्चावचपदबम्भ्रमणनैरन्तर्यात्क्वापि स्थैर्यं स्वास्थ्यं वा भवति, प्रयच्छति त्वेतद् द्वीपः । किञ्च महार्घ्यभाण्डस्य सारद्रव्यस्य च रक्षा द्वीपमन्तरेण दुर्घटा समुद्रविभ्रमे ।
/
एवञ्चारित्रद्वीपोऽपि रक्षति रागादिदारुणनक्रचक्रेभ्यः । वितरति सद्ध्यानस्वाध्यायादिकानात्मपुष्टिकरान् स्वादुभोज्यान् भावनाद्यमृतं च । न ह्येतदभ्यवहरणावाप्या तृप्तिः प्राप्येत जातु भवसागरे । भवसागरसुलभकषायाशुभध्यानादेस्तृष्णादिदुःखवर्द्धनत्वात् । कदर्थ्यतेऽत्रात्मा दोषकच्छपैः । चर्व्यते निर्दयं कुसञ्ज्ञातिमिङ्गिलैः । न विद्यत एतन्मोचको गुरुरपि भवसागरे गुरुकुलवासस्यापि चारित्रद्वीपस्थितत्वात् । किञ्च भवसागर उच्चावचपदावाप्तिः कदर्थयत्यात्मानम् । कदाचिद्देवलोके कदाचित्तु नरके गच्छत्यात्मा । कदाचिन्नरकादप्यनन्तगुणवेदने निगोदेऽपि निवसत्यात्माऽनन्तान् पुद्गलपरावर्त्तान् यावत् । नैषा कदर्थना भवत्यवाप्तचारित्रद्वीपानाम् ।