________________
१८०
-
पञ्चसूत्रोपनिषद् (८) आश्वासद्वीपः प्रकाशद्वीपश्च सूत्र : तहा आसास-पयासदीवं संदीणाथिराईमेअं असंदीणथिरत्थमुज्जमइ !
लोकोत्तरं खलु वस्तु सम्यज्ज्ञानं सम्यक् चारित्रं च । 'दीव' - शब्दस्य हि द्विविधं संस्कृतरूपम् - द्वीपः, दीपश्च । चारित्रमाश्वासद्वीपः, ज्ञानं तु प्रकाशदीपः । भवसागरे कषायाविरतिविकारकल्लोले निमज्जतो जीवान् द्वीपवदाश्वासयति चारित्रम्, विकारोपशमप्रयोजकतया परमसुखहेतुत्वात् । ज्ञानं चैकान्तदुःखव्याप्तमोहान्धकारं निराकरोति प्रदीपवदित्येतत् प्रकाशदीपोपमम् ।
चारित्रलक्षणद्वीपाभावे कषायादिविकारकल्लोलप्रयुक्तमात्मनो निमज्जनं स्याद् भवसागरे । ज्ञानदीपकविरहे तु सत्यपि सर्वनिधान आत्मगृहिस्थिते तद्दर्शनं विनैवमेव कुमारेण मरणं स्यात् । भावनीयं चारित्रद्वीपालम्बन उदायनराजर्षिज्ञातम्, ज्ञानदीपकप्राकट्ये च श्रीसिद्धसेनदिवाकरसूरिनिदर्शनम् ।
एषोऽपि प्रत्येको द्विप्रकारः । तत्र द्वीपः - (१) स्पन्दनवान् - समुद्रवेलाकाले प्लावनवान्, एतत्सदृशं भवति क्षायोपशमिकं चारित्रम् । (२) अस्पन्दनवान् - अप्लावनवान्, एतत्सदृशं भवति क्षायिकं चारित्रम् ।
दीपोऽपि द्विविधः - (१) अस्थिरः - प्रतिपाती, एतत्सप्रक्षं क्षायोपशमिकं ज्ञानम् । (२) स्थिरः - अप्रतिपाती, एवंविधं क्षायिकं ज्ञानम् ।