________________
पञ्चसूत्रोपनिषद्
सार्वज्ञ्यमतोऽत्र यतितव्यम् ।
१७९
वेत्तिर्मुनिर्यथा मातृत्यागतो विनश्यति बालः, एवं प्रवचनमातृत्यागोऽपि चारित्रात्मकस्य बालस्य प्राणान्तलक्षणानर्थकृत् । छद्मस्थस्य चारित्रं हि बालचारित्रं भवति, अत एतदव्यक्तम् । व्यक्तं तु चारित्रं सर्वज्ञस्यैव तदपि प्रवचनमातृसन्ततसंयोगफलम् । उक्तसंयोगेनैव चारित्रबालस्य सम्यग्वृद्धिक्रमेण सर्वज्ञचारित्र - परिणतियोगात् । व्यक्तचारित्रायोगे निरन्तरं प्रवचनमातृसंयोगोऽत्यावश्यकः । क्षायोपशमिकचारित्रं कदाचिदाव्रियेत सत्तागतेन चारित्रमोहनीयेन । अतो सन्ततं प्रवचनमात्रनुपालनं कर्त्तव्यमुक्तभयभीतेन । एतदनुपालनेनैव संरक्ष्यते जीवश्चरणावरणोदयलक्षणादनर्थात् ।
/
सर्वमप्येतदवगच्छति श्रमणो द्विविधया ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च । अष्टप्रवचनमातृस्वरूपोपयोगिताऽऽवश्यकतामोक्षफलकतादिगोचरं श्रद्धासचिवं ज्ञानं ज्ञपरिज्ञा । एतज्ज्ञानानुसारिसमितिगुप्त्याचरणं प्रत्याख्यानपरिज्ञा ।
अनादौ संसारे जीवेनैतद्भिन्नविषयमनल्पं ज्ञानं तदनुरूपा चावाप्ता क्रिया । तत्फलतयाऽवाप्तं पापमयं जीवनम् । पर्यवसितं तदाधिव्याधितृष्णादिपीडायाम् । ततोऽपि प्राप्ता भवपरम्परैव । अतो प्रोक्तद्विविधपरिज्ञया कर्त्तव्या आत्मसात् समितिगुप्तयः । ततश्चेहापि भवेत् परमं स्वास्थ्यम्, ततोऽपि निष्ठामेष्यति संसारः । को नु सुन्दरं दुर्लभं च योगं प्राप्य प्रमाद्येत ?