________________
१७८
पञ्चसूत्रोपनिषद् (२) वचनगुप्तिः - सज्ञादिपरिहारेण यन्मौनस्यावलम्बनम् । वाग्वृत्तेः संवृत्तिर्वा या, सा वाग्गुप्तिरिहोच्यते ।। (३) कायगुप्तिः - उपसर्गप्रसङ्गेऽपि, कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य कायगुप्तिः सतां मता ।। (योगशास्त्रे १) __ अत्रेर्यासमिती निदर्शनं वरदत्तो मुनिः, येन देवकृतपरीक्षायां हस्तिभयेऽपि मण्डूकीरक्षार्थं सम्यक् परिपालितेयं समितिः । भाषासमितौ महानिशीथे रुक्मीकथावर्णितो मुनिर्दृष्टान्तम् । येन सकृदेतत्समितिभङ्गेन सञ्जातानुशयेन प्रतिपन्नं यावज्जीवं मौनम् । ततश्चापरस्मिन् भवे बभूव सुलभबोधी राजपुत्रः | सञ्जातः प्रभावकब्रह्मचर आबाल्यात् । अवाप गृहिभावात्प्रभृतिरेवावधिज्ञानम् । एषणासमितौ ढण्ढणमुनिनिदर्शनं प्रसिद्धम् । आदानसमितौ प्रतीतं वल्कलचीरी दृष्टान्तम् । पारिष्ठापनिकासमितौ धर्मरुच्यनगारवक्तव्यता प्रथिता । मनोगुप्तौ निदर्शनं कुमारपालभूपालः । येन मनसाऽपि ब्रह्मभङ्ग उपवासाभिग्रहो गृहीतः । वाग्गुप्तौ दृष्टान्तं मेतार्यमुनिः । येन क्रौञ्चरक्षार्थं मौनमवलम्बितम् । मा भून्मस्तकस्थाङ्गारनिपातेन महीगतजीवविराधनेति स्थिरतरकायो गजसुकुमालमुनिर्निदर्शनं कायगुप्तौ । ___अनादिकालतो हिंसाप्रमादाभ्यासः सञ्जातोऽस्त्यात्मनः । तं कृपानिधिं कुरुते समितिगुप्त्यभ्यासः । एष हि तनोत्यात्मन्यप्रमादलक्षणं शुभोपयोगम् । विधत्ते आत्मनः पुष्टिं पुण्यतः, शुद्धिं च पापक्षयतः । विरला एव नियन्त्रयन्त्यात्मानं समितिगुप्तिभिः । एतदनुभावेनैव माषतुषसदृशा अप्यवापुः