________________
१७६
पञ्चसूत्रोपनिषद् सम्यक्त्वादि बीजम् । नास्य विराधना बाधते मार्गप्रयाणम्, सबीजत्वेनास्य मार्गानुसारित्वात् । अनाराधकस्य तु मार्गदेशनाश्रवणेऽप्युद्भवति सन्त्रासादिकम्, अतस्तस्य न भवति मार्गानुसारित्वम् । नापि तस्य सम्यग्दर्शनादि बीजम् । अधिकृतस्य तु तदुभययोगादबाधितं भवति मोक्षप्रयाणम् । मार्गगामिन एव भवत्येषाऽबाधकविराधना, अवाप्तबीजत्वात्तस्य |
ननु किं सर्वेषामपि मार्गगामिनामेवंविधा विराधना भवति? नेत्युच्यते । द्विविधा हि मार्गगामिनः | सापाया निरपायाश्च । अपायः - अतिसङ्क्लिष्टमोहनीयान्तरायादि निरुपक्रमकर्मोदयः, स चावश्यं कारयति विराधनाम् । सोपक्रमं तु कर्म पुरुषार्थेन क्षीयते । न दर्शयत्येतत् स्वविपाकम् । एतद्युक्त आत्मा निरपायो व्यपदिश्यते । इदृशो मार्गगामी न विराधनां विधत्ते, अपि तु सम्यगनुसरति शास्त्रोदितं मार्गम् । परिपालयति विधिम् । परिहरति प्रमादप्रयुक्तं शैथिल्यम् ।
द्वावप्येतौ सम्यग्दर्शनादिबीजमन्तौ । यद्यप्येतयोरुभयोरपि पुरुषार्थो मार्गपालनार्थो भवति । द्वावपि यतेते दोषपरिहारार्थम्, तथापि सापायस्य विराधना भवति, तत्त्वादेव | सोपक्रमकर्मा तु निरपायतया प्रतिबध्नाति स्वकर्मविपाकोदयम् । आपादयति क्षयोपशमम् । ततश्च न भवति तस्य विराधना । एतदुक्तं भवति - सबीजस्य दोषपरिहाराय पुरुषार्थस्तु भवत्येव, अन्यथा तु तद्भावस्यैवानुपपत्तिरिति ।
उक्तगुणोपेतः प्रव्रजितः प्रवचनमातृसम्यक्परिपालकस्स्यात् ।